________________
जयलक्ष्मीटीकासमेता। (११५) श्रिताः॥ मनु १४ नक्षत्र २७ दत्रा २ क १२ तिथि १५ षट् ६ सागरा ४ग्नयः ३॥ १॥अथ सप्तदशाष्टौ च रंध्रांतं विलिखेत्क्रमात्॥ततः स्वरानपंढांश्च वर्णाश्च ङाणोज्झितान् ॥२॥ अत्राक्षराधःस्थैः स्वैस्वैरंकैः संकलितं भवेत् ॥ वसुभिर्भाजिते शेषे आया ध्वजमुखादयः॥३॥ ध्वजो धूम्रोथ सिंहः श्वा सौरभेयः खरो गजः ॥ ध्वांक्षश्चैते क्रमेणैव आयाष्टकमुदाहृतम् ॥ ४ ॥ काकाइली श्वा च भवेत्सारमेयाच्च रासभः ॥ बलवान् रासभादुक्षा वृषभादपि कुंजरः ॥५॥ कुंजरादपि पंचास्यः सिंहादपि बली ध्वजः ॥ ध्वजादपि बली धूम्रस्तथा जातिविशेषतः॥६॥ भागहारेण शून्यत्वादष्टमः परिगृह्यते ॥ एकाद्यैः शेषभूतांकैर्ध्वजाद्याश्चायचक्रमात् ॥७॥
अथ समरविजयतंत्रे । आयचक्रेति ॥ १ ॥ २ ॥ यथा देवदत्तयज्ञदत्तयोविजयपराजये । देवदत्तनामांकसंख्या एकोनपंचाशत् ४९ यज्ञदत्तनामांकसंख्या ८४ चतुरशीतिः। उभाभ्यां वसुभाजिते शेषे देवदत्तस्यैकं शेषं यज्ञदत्तस्य चत्वारि ४ देवदत्तस्यायो ध्वजः । यज्ञदत्तस्यायः श्वा ॥ ३ ॥ ४ ॥५॥६॥ ७ ॥
आयचक्रमिदं प्रोक्तं यत्सुरैरपि दुर्लभम् ॥ अत्र नामाक्षरादीनां युक्तिरन्या प्रदर्श्यते ॥ ८॥ जयाजयपरीक्षायां स्वरोदयपरिश्रितात् ॥ षोडशाक्षरवर्गः स्यात्कादयः पंच वर्णकाः ॥९॥ चतुश्चतुष्कवर्णौ च यशौ वर्गाः प्रकीर्तिताः॥ नानि वर्णात्स्वरात्संख्या वर्गवर्णवशाच सा ॥ १० ॥ इति आयचक्रम् ॥ व्याख्या। योधस्य नाम्नि ये वर्णाः तेषां संख्या एकत्र कार्या कथं कार्या तत्राह । वर्गवर्णवशात् । वर्गाणां यावत्संख्यावर्णः तत्संख्या नाम्नि पृथक् ग्राह्या वर्णानां संख्या एकत्र कार्या तथा नाम्नियेमात्रास्वरास्तेषां स्वरवर्गाक्षरसंख्या पृथक् ग्राह्या स्वरसंख्या द्विगुणा । वर्णसंख्या चतुर्गुणा तयोः संख्यांकसंयोगं कृत्वा भाग हरेत् ततः “ सप्तभिर्योवशेषांकस्तेनारेरात्मनस्तथा । बलाबलं विचार्य स्यायुद्धावसरवेदिभिः " ॥ तथा च उदाहरणम् । देवदत्तस्य दकारस्य त्रि ३ संख्या वकारस्य चत्वारः४ द्वितीयदकार
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com