________________
जयलक्ष्मीटीकासमेता ।
( १०९ ) कोणाष्टके जयो लाभः कुक्षिषङ्के तथा पुनः ॥ शृंगयुग्मे रुजो भंगो मृत्युः शूलत्रये स्फुटम् ॥४॥ सूर्य भात्रिचतुः पंचरससप्ताष्टगोमिते ॥ गतगम्यर्क्ष के लाभजय शेषे रुजो मृतिः ॥ ५ ॥ विवाहे विग्रहे युद्धे रोगार्ते गमने तथा ॥ सूर्यकालानलं चक्रं ज्ञातव्यं च प्रयत्नतः ॥ ६ ॥ रोगे च कुजनक्षत्रं दिनऋक्षं तु युद्धके ॥ प्रयाणे कृत्तिकालेख्यमन्यत्रार्कं प्रदीयते ॥ ७ ॥ इति सूर्यकालानलचक्रं समाप्तम् ॥
ऊर्ध्वगास्त्रिशूलाग्रोते ॥ १ ॥ मध्यत्रिशूलदंडाध इति ॥ २ ॥ नामर्क्षति ॥३॥ कोणाष्टको ॥ ४ ॥ सूर्यभादिति ॥ ५ ॥ विवाहोते । ऊर्ध्वगतास्त्रिरेखाः कार्याः । तथा रेखात्रयं तिर्यक्कार्यम् । ईशानांग्नेयनैर्ऋत्यवायव्येषु द्वे द्वे रखे कायें । ऊर्ध्वररेवात्रयोपरि त्रिशूलं देयम् । शूलत्रयाधो रुद्राग्नेयकोणयोरर्द्धचंद्रवदेखिका कार्या तदग्रे गोशृंगवत् श्रृंगयुगम्। एवं चक्रं निर्माय सूर्यभं मध्यदंडाधो निवेश्य प्राङ्मुखोपविष्टो वातादिकोणमारभ्य प्रदक्षिणं भानि लिखेत् । विवाहादिषु यत्र नक्षत्रं तत्फलं वदेत् । सूर्यभात्रिचतुः पंचादिसप्तके गतगम्ये च शुभं वदेत् । इतरेषु अशुभमित्यर्थः ॥ ६ ॥ ७ ॥ इति सूर्यकालानलम् ।
चंद्रकालानलं चक्रं व्योमाकारं लिखेत्ततः ॥ चतुर्दिक्षु त्रिशूलानि मध्यभिन्नानि कारयेत् ॥ १ ॥ पूर्वत्रिशूलमध्यस्थं दिनऋक्षादिलिख्य- 5 ते ॥ त्रिशूले च बहिर्मध्ये मध्ये बहित्रिशूलके ॥२॥ नामऋक्षं स्थितं यत्र ज्ञेयं तत्र शुभाशुभम् ॥ त्रिशूले चक्रबाह्ये च
·
5 -
॥ चंद्रकालानलचक्रम् ॥
भ कृ
B
어
अ मृ
भू bhi
B
आउ
Q
JB
पु
64
4
क्षा म
चक्रमध्ये तथैव च ॥ ३॥ त्रिशूलेषु भवेन्मृत्युर्मध्यमं बहिरष्टके ॥ लाभक्षेमो जयः प्रज्ञा चंद्रगर्भे न संशयः ॥४॥ वर्जनीयं प्रयत्नेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com