________________
(१०८)
नरपतिजयचर्यायोधभं पतितं यत्र वक्ष्ये तस्य शुभाशुभम् । मृतिमोहो जयो लक्ष्मीः क्रमाद्राहोश्चतु. ष्टये । अग्निकोणार्द्धचंद्रे तु शक्र जयति संगरे । तदने त्रितयं सौम्यं विजयो नैर्ऋतिद्वये ।तदने चैकरेखायां सा सदा शुभदा स्मृता । अधः शूलत्रये मृत्युस्तदग्रे शुभसंततिः। बंधनं मरणं घातं यदुक्तं शूलकत्रये । क्रमादृक्षत्रयेप्येवं योधऋक्षगते सति । मारयति रणे राहुरीशानादिषु पंचके । राहुसंपातकं चक्रं संगोप्यं जयकांक्षिभिः" इति राहुसंपातचक्रे प्रथमो भेदः । “यस्मिन् चके द्वयं क्षेत्रं जीवं मृतकसंज्ञकम् । भोग्यं तत्र मृतं ज्ञेयं भुक्तं जीवं चतुर्दश । जीवपक्षगते चन्द्रे मते भास्करसंयुते । कृता कामप्रदा यात्रा विपरीता भयप्रदा । चन्द्राकों जीवपक्षस्थौ यात्रासिद्धिकरौ मतौ। विपरीतांग. संस्थौ तौ सर्वकार्येषु विघ्नदौ । कालानलमुखस्थौ च सर्वकार्येषु निंदितौ । विनाशकमिति ख्यातमृक्षं राहोश्चतुर्दशम् । जीवपक्षे महीशस्य यात्रा श्रेष्ठा प्रकीर्तिता । विपरीता समाख्याता संगरे भगदा सदा । उदितस्वरवणों ये ते वै कायोः पुरोगमाः। कुमारा: पार्श्वतो देया वृद्धाः पृष्ठे नियोजिताः। कतिपयाः समरे भूपैः कर्तव्या जयकांक्षिभिः"। इति राहुसंपातद्वितीया भेदः । “अस्मिन् चक्रे प्रवक्ष्यामि चक्र विजयसंज्ञकम् । दिनक्षेमाघरेखायामूर्द्धशलत्रये फलम् । योधर्भ जायते यत्र ज्ञेयं तत्र शुभाशुभम् । आये मृत्यु १ हये हानिः २ जयं चैव चतुष्टये । द्वये शूरः परान्हंति विक्षतो विजयी त्रये । व्यापादकं द्वये नाम तत्रस्थं मृत्युदं स्मृतम् । कुशिकानामकाःपंच रणे पंचत्वदायकाः। भयं भगं रुजो हानि तदये ऋक्षकत्रयम् । रेखे द्वे रुद्रकोणे तु निष्फले परिकीर्तिते । द्वंद्वयुद्धे च युद्धे च नामके नामसंज्ञकम् । शुभस्थानगतो योधो विध्यते पापखेचरैः । क्षयमति रणे भूतं सौम्यैः श्रेष्ठफलप्रदम् । विचार्य कार्यतत्त्वज्ञैश्चक्रे विजयसंज्ञक॥९॥ ॥ १० ॥ ११ ॥ इति तृतीयराहुसंपातचक्रम् । अथ सूर्यकालानलम् । ऊर्ध्व ॥सूर्यकालानलचक्रम् ॥ गास्त्रित्रिशलाग्रास्तिस्रस्तिर्यक् च संस्थिताः ॥ द्वे द्वे नाडयौ स्थिते कोणे श्रृंगयुग्मं तथैकया ॥१॥ मध्ये त्रिशलदंडाधो भानुभायं भमंडलम् ॥ साभिजिच्च प्रदातव्यं सव्यमार्गेण सर्वदा ॥२॥ नामऋक्षं स्थितं यत्र ज्ञेयं तत्र शुभाशुभम् ॥ अधो गतैस्त्रिनक्षत्रैरुद्वेगो वधबंधनम् ॥ ३॥
अत्र
लानल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com