________________
जयलक्ष्मीटीकासमेता।
(१०७) स्त्रयोवंशतिनाशकृत् । पंचधा केतवस्त्वते महोया ब्रह्मणः मुताः। अन्यशास्त्रोदिता संख्या न संग्रामे फलप्रदा । कवियुद्धे द्वंद्वयुद्धे चातुरंगे महाहवे । चिंतनीयं प्रयत्नेन गणकैर्जयकांक्षिभिः।" इति चातुरंगकेतवः । अथ चतुर्दशांगगूढचक्रम् शलाकासप्तकं चक्रं लिखेत्वस्थानतः सुधीः । चतुर्दशांगचक्र च महागूढामति स्मृतम् । दिनभात्कल्पयेदंगनामानि च चतुर्दश । आद्यः शलं त्रयं ३ कीलं द्वयं लोलं द्वयं मातः २। विजयी दे २ दे कुलाख्यं २ कूलं चैव द्वयं स्मृतम् । त्रयं पाली ३ मृतिस्त्रीणि ३ चोल्का द्वे २ द्वे विनाशकः । वज्रे द्वे २ तु हनुश्चैकं १ दंष्ट्राप्येक १ मुदाहृतम् । यदंगे योधभं तिष्ठेयुद्धकाले फलं वदेत् । अस्त्रं त्यजति शूले च कीले विजयमादिशेत् । शूरो धावात लोलस्थे मतिस्थो घातवंचकः । विजये विजयी योधः कूले चैव पलायनम् ।
रे हानी रणेघातात्पालिस्थे शत्रुसंयुतिः।मृतिस्थे मरणं याति चोल्कास्थेयाति भंगताम्। विनाशे नाशमायाति वज्रेप्येवं फलं भवेत् । योधभे हनुदंष्ट्रास्थे योधः कालेन गृह्यते । शुभस्थानगतः शूरः शोभनैयदि वीक्ष्यते । तदा द्विगुणमाधत्ते यदुक्तं शोभनं फलम् । पापविद्धं भयं भगं तद्दिनं वर्जयेशुधि । वक्रपापग्रहविद्धं संग्रामे योधभं भवेत् । तदा धै मनः शूरः संग्रामाद्विनिवर्तयेत् । शुभस्थानगतो राहु'ढचक्रे विनश्यति । राहुऋक्षगतो योधा यदा भवति पंचमे। बलं त्यक्त्वा व्रजेद्राजा मन्त्री शस्त्रेण हन्यते । योधर्मादशमे भौमः स्वपक्षहेन्यते नृपः ॥" योधशब्देन सर्वत्र नृप एव । योधशब्देन योधभं गृह्यते । इति प्रथमचतुर्दशांगम् ॥०॥"चतुर्दशांगचक्रे स्मिन् योधभादि लिखेद्बुधः। शूलस्थे वदने घातं नक्षत्रे पापसंयुते । कीलस्थे मस्तकेप्येवं लोले वामभुजांतरे । मतौ हस्ते वदेदामे विजये वामपादके । जयाख्ये कूलतो घातः कूले तु जठरे स्मृतम् । पालिका हृदि देशे तु मृतिस्थे स्कंधयोईयोः । उल्काख्ये भुजदेशे तु विनाशो दक्षिणे करे। वज्राख्ये दक्षजंघायां हनुदंष्ट्राख्यपादके। क्रूरस्थाने वदेवातं चंद्रयोगे विशेषतः।" अथ घाते भूबलम् । “दक्षपृष्ठगताः पापा घातदा न भवंति हि । सम्मुखा वामभागस्था भवंति क्षतदायकाः । क्रूरास्तु दक्षिणे यस्य शोभना वामभागगाः । तदा शूरो भवेद्योधा विपरीतास्तु भंगदाः।ग्रहमुक्तसमं घातं द्विगुणं वक्रगे ग्रहे । क्रूरे चैव स्वराशिस्थे घातं चैवाईकृद्भवेत् । मित्रग्रहे .तु पादोने समे सर्व प्रद्यति । क्रूरे तु शत्रुभे प्राप्ते द्विगुणच्छेदनं तनोः। स भवेदुच्चसंस्थस्तु यदि वक्रगतिस्थितः। त्रिगुणं चतुर्गुणं छेदं करोतीह न संशयः । ऊर्द्धदृष्टिग्रहे शत्रुरूद्धहस्तेन घातयेत् । अधो दृष्टिरधो घातं तिर्यगूदृष्टिद्विपादयोः। विचित्य घातं कुर्वीत चन्द्रयोगे विशेषतः।"इति चतुर्दशांगघातचक्रम् ।“आर्द्रादौ तु मृगस्यांतं मध्यं मूले प्रतिष्ठितम् ।भुजंगसदृशाकारं कालचक्रस्य निर्णये । रवींदुनामनक्षत्रमेकनाड्यां भवेद्यदि । तस्य कालं विजानीयादित्युक्तं ब्रह्मयामले ।"अथ राहुसंपातचक्रम्। ऊर्ध्वरेखात्रयं कार्य तिर्यग्रेखा तथा पुनः। कोणे चैकैककं कार्य शृंगयुग्मं कृतार्द्धके । ऊधिोमध्यरेखायां सा त्रिशूलसमावृता। अर्द्धचन्द्रसमा रेखा कृता रुद्राग्निकोणयोः । ऊर्ध्वशूलस्य मध्यस्थं राहुऋक्षादितः फलम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com