________________
( १०६ )
नरपतिजयचर्या -
खेचरसंज्ञकाः । अथवा राहुमार्गगाः यस्मिन्नक्षत्रे राहुः संचराते । तत्सम्मुखानि नक्षत्राणि चतुर्दशतत्संस्थिता ग्रहाः भूचरसंज्ञकाः ये च राहुगतनक्षत्रादग्रे चतुर्दशनक्षत्रस्थाः खेचरसंज्ञकाः तैर्ग्रहैरपि यायिस्थायिबलमुक्तम् । यथा । कृत्तिकास्थो राहुस्तदग्रे रोहिणीप्रभृतिचतुर्दशनक्षत्रस्थाः खेचरसंज्ञकाः । भरणीप्रभृतिवामं भरणी अश्विनीरेवतीत्यादिक्रमेण चतुर्दशनक्षत्रस्था ग्रहाः भूचरसंज्ञकाः । अनेनाभिप्रायेण मया राहुकालानलचक्रे द्विधांगे ऊर्ध्वाधरतया खेचरभूचरचक्रमुक्तम् । अत एव तत्काले रविचंद्रौ तत्काल नक्षत्रगतावानीय षडंगैः पापारिष्टकरैर्योगैर्मृगयासिद्धिरुक्ता । येन च मृतपक्षे यायी भज्यते म्रियते । सैन्यक्षयं याति सैन्यावर्त्तादियोगैर्मृगयासिद्धिर्भवति । स्थायी भंगादियोगैरा । यत्र कुत्रापि खेचरभूचरचक्रं मृगयायै च प्रोक्तम् तत्रापि इदमेव । यथा भूचरचक्रे खेचरचक्रे यायिस्थायिबलम् । “भूचरचक्रगाः पापाः स्थायी जयति विद्विषः । यायी खेचरचक्रे च जयदाः शुभदायिनः । यायी भंगमवाप्नोति भूचरस्थैः शुभाशुभैः । नागरो जयमाप्नोति सैन्यार्द्धे च क्षयं गते । यायी विजयते नूनं खेचरस्यैः शुभाशुभैः । स्थायिनः सक्षतस्यापि जायतेऽत्र बलक्षयः । भूचक्रगैः शुभैः खेटैः पापैः खेचरमाश्रितैः । बलद्वयं क्षयं याति राज्ञो जीवितसंशयः । मिश्रं फलं वदेन्मिश्रैर्भूचरे खेचरे गतैः । शुभाशुभैर्द्वयो राज्ञोरवश्यं स्थायियायिनोः । " एतैः श्लोकार्थैः भूचरसंज्ञं खेचरजीवपक्षमृतपक्षविषयमित्यस्माकं मते । इति तात्काले राहुकालानले खेचर - भूचरचक्रम् | अथ त्रिधा चतुर्दशांगराहुचक्रमुच्यये । कुमारविजये । चातुरंगसूचनायां चतुर्द्धांगराहुः । " शलाकासप्तके चक्रे मुखे देयं च सप्तकम् ७ । राहोः स्कंधे च सप्तैव सप्त चैव तथोदरे ७॥ कटिदेशे तथा सप्त ७ चातुरंगकनामके । राहुऋक्षादितः स्थाप्या सृष्टिमार्गव्यतिक्रमे । योधऋक्षगतं यत्र ज्ञेयं तत्र शुभाशुभम् । मुखे मृत्युर्भयं स्कंधे जयं चैव तथोदरे । कटौ पातभयं प्रोक्तं चिंतनीयं च संगरे । मुखऋक्षमते योधा जीवयोगे तु मध्यमः । शनियोगे शिरश्छेदं भौमयोगे महत् क्षतम् । पलायते कवियुतौ नातिभद्रं शशांकजे । मृत्युश्चंद्रमसो योगे शस्त्रं त्यजति केतुना । महद्देषकरो भानुश्चातुरंगते सति । ” मुखादिसप्तनक्षत्रे यदि योद्धा युद्धाय गतो भवति । तन्नक्षत्रस्थैजींवादिग्रहैर्यत्फलमुक्तं तदवधार्यम् ॥ इति मुखग्रहयोगः । स्कंध ऋक्षगतो योधा जीवेन जयदो भवेत् । शुक्रे शस्त्रपरित्यागी भंगी सूर्यसुतेन च । पादस्खलनदो बोधः सूर्यः शत्रु वशं नयेत् । गात्रच्छेदकरो भौमः शस्त्रं भ्रंशयते विधुः । स्वशस्त्रतो मृतिं याति केतुयोगे न संशयः । इति चातुरंगे स्कंधगतयात्राफलम् । “ उद्र्क्षगतो योधा जीवयोगे महाजयः । शुक्रेण सम्मुखः शत्रुः समयुद्धं शनैश्वरे । रवियोगे जयं विद्यात् सपापेंदोर्भयं भवेत् । परं जयति भौमेन चंद्रजे चातिशूरता । युद्धे संधिकरः केतुर्योधयो रुभयो रणे । इत्युदरगतग्रहयोगफलम् । कटिदेशगतो जीवो घातं न कुरुते रणे । समता भार्गवे योगे शनियोगे महद्भयम् । सूर्ये शत्रुवशित्वं च चंद्रे हानिर्विनिर्दिशेत् । मारयति रणे भौमो बुधः क्लेशं करोति च । पलायनकरः केतुर्धर्मकेतुस्तृतीयके । विंशतिस्थः शिखी केतु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
·
www.umaragyanbhandar.com