________________
जयलक्ष्मी टीकासमेता ।
( १०५ )
हस्तनक्षत्र घटी० प० ३ तत्र सुमतिविचारेण कन्याराशौ तत्कालसूर्यः एवं भौमादयोषि कार्याः आचार्यस्य सूर्याचंद्रमसोः प्रयोजनम् ॥ ३ ॥
स्थिरचक्रे मया प्रोक्तं चंद्रादित्यफलाफलम् ॥ परचक्रेप्यनेनैव प्रकारेण फलं वदेत् ॥ ४ ॥ सर्वेषु शुभकार्येषु यात्राकाले विशेपतः ॥ सर्वकाले शुभचंद्रो ज्ञेयो हृदि गुदोदरे ॥ ५ ॥ मुखपुच्छकपालस्थे शशांके राहुवऋगे ॥ बंधनं हानिमृत्युश्च सर्वकार्येषु जायते ॥६॥ गुदसंपुटगे चंद्रे विवाहे नंदति द्वयम् ॥ नैःस्वं विद्वेषवैधव्यं मुखे पुच्छे च मस्तके ॥ ७ ॥ पुष्पिते फलिते धिष्ण्ये प्रश्नकाले शशी शुभः ॥ अफले झटिते मध्यो मृत्युःशेषांगके विधौ ॥८॥
स्थिरच मया प्रोक्तमिति । स्थिरचक्रे पंचांगषडंगदशांगे चंद्रादित्यभ्रमेण फलाफलमुक्तं स्थिरचक्रमिति किं यतो रविजींवांगे मृतांगेपि पृथक मासषट्कं तिष्ठति । अतः स्थिरचक्रम् इदं तत्कालचक्रं चरचक्रम् । यतो दिने दिने चतुर्दशदिनपर्यंतं यस्मिन्नृक्षे प्रवर्तमानस्तदारभ्य सप्तविंशति नक्षत्रं भुंक्ते । चंद्रः पुनरेकनक्षत्रस्थः सप्तविंशतिनक्षत्रं भुंक्ते । अतस्तत्काले चंद्रादित्यौ समुत्पाद्य यायी स्थायी बलं देयम् ॥ ४ ॥ सर्वेषु शुभकार्येष्विति । मुखपुच्छकपालस्थेति । श्लोकद्वयस्यार्थों जीवपक्षः । मृतपक्षसामर्थ्यात् । यतो हृदयादि अंगत्रयं जीवपक्षे मुखाद्यंगत्रयं मृतपक्षे ॥ ५ ॥ ६ ॥ अथ शुभकार्ये फलमाह गुदसंपुटगेति । नंदति द्वयं वरकन्याद्वयम् ॥७॥ अथान्यच्छुभफलमाह । पुष्पिते फलितेति ॥ ८ ॥
ऊर्ध्वं च खेचरं चक्रमधो भूचरमुच्यते ॥ उभयोः संनिपातेन राहुकालानलं मतम् ॥ ९ ॥ न लोभर्न भयैः स्नेहैर्न देयं कार्यकारणैः ॥ कालानलामिदं चक्रं गोपनीयं प्रयत्नतः ॥ १० ॥ चिरकाल - स्थिते भुक्ते सुपरीक्ष्य पुनः पुनः ॥ तस्मिञ् शिष्ये प्रदातव्यं राहुकालानलात्मकम् ॥ ११ ॥ इति श्रीनरपतिजयचर्यायां स्वरोदये राहुकालानलचक्रं समाप्तम् ॥
अथान्यदाह । ऊर्ध्वं तु खेचरमिति । ग्रंथे प्राप्तावसरे व्याख्यायते ऊर्ध्वं तु खेचरं चक्रमिति किं जीवपक्षचकं प्रथममुक्तं पश्चान्मृतपक्षचक्रम् । उभयोरूर्ध्वाधरत्वात् खेचरचक्रमुच्यते । यत उक्तमुत्तरार्द्धश्लोके । उभयोः सन्निपातेनेति । भूचरगाः खेचरगा अपि प्रोक्ताः । चक्रपाणिना कल्पलतायाम् । “भूचरसंस्थाः खेटा उक्ताः स्वर्भानुमागंगा ये हि । दिनकरमागोंपगताः खेचरचक्राश्रिताः पूर्वैः । " ये स्वर्भानुमार्गगाः - वक्रगतयः ते भूचरसंज्ञकाः । ये दिनकरमार्गोपगताः कोर्थः शीघ्रगतयस्ते खेचरा ग्रहाः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com