SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ( १०४ ) नरपतिजयचर्या एषां पंचानां क्रमशः फलमाह । अथ राजसाख्यफलम् । विग्रहस्येति । वर्षपर्यंत यात्रासमाप्तिः। परमतेन क्रमेण दिनदिने वर्षपर्यंतं विग्रहवृद्धिर्भवति । युद्धस्य न निवृत्तिः । तत्र कदाचिद्रोगपीडा तदुपरि यात्रा परिसमाप्तिसमये युद्धं भवति । तस्मिन् युद्धे भंगः पलायमानः स्वदेशमायाति ॥ १० ॥ अथ तामसाख्यफलम् । हस्त्यश्वेति । यदि गर्वात् कोशबलसंपन्नः परपुरजयाय गच्छति तदा षण्मासैखे एतानि फलानि लभते हस्त्यश्वपुत्रमित्रादयः प्रतिपक्षाहता विनश्यति । स्वयं तु परदेशगतो जेतुम् । अत्र स्वराज्ये तत्पश्चात् परिग्रहादयोंतः पुरचराविलीयंते । मृता भवति ॥ ११ ॥ अथ वृद्धसंज्ञांगफलमाह । तामसोग्रेति ॥ १२ ॥ अथ मृत्युफलमाह । सर्परूपी राहुः तन्मुखासन्नतया तदभिमुखतया च तस्य विषफूत्कारात् मृतनक्षत्राणि । तेषां फलम् । ततस्त्रिमृत्युरिति ॥ १३ ॥ अथ जिह्वाफलमाह । युद्धे भंगमिति ॥ १४ ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां दशांगराहुः । युद्धकाले यदा शीघ्रं यात्रायोगो न लभ्यते ॥ उत्पाद्यौ तौ तदा शीघ्रं तत्कालेंदुदिवाकरौ ॥ १ ॥ इष्टनाड्यो हता धिष्ण्यैः षष्टिभागातशेषके || अश्विन्याददुभुक्तेन फलं तात्कालचंद्रमाः ॥२॥ चंद्रवत्साधयेदर्कमृक्षस्थं चेष्टकालिकम् ॥ यतोहोरात्रमध्ये तौ विभ्रातौ धिष्ण्यमंडले ॥ ३ ॥ युद्धकालेति । प्रत्यासन्ने परचक्रं आवश्यके परपुरगमने यदि यात्रायोग : स्थिरचके न लभ्यते । तदा तत्काले कोथः । मृतपक्षेपि अयोगलाभे उदयाद्दिवाकरेंढ़ शीघ्रावुत्पादनीयौ । कस्मिन् काले जीवपक्षो लभ्यते जीवपक्षे प्राप्ते तदा तत्काले द्रादित्यौ राहुकालानलचत्रे हृदयाद्यंगे ज्ञातौ भवतः ॥ १ ॥ तदर्थं तत्कालीकरणमा । ख्यादीनाम् । इष्टनाड्येति । अस्मिन्नक्षत्रे तौ रवींदू तत्कालनक्षत्रस्थौ ज्ञातव्यौ भवतः । तत्र करणं यथा । अश्विनी नक्षत्रस्य घटी २ पल १५ इष्टनाड्यो हता धिष्ण्यैरित्यादिकरणेन मुणितं जातं ६० । ४५ । षष्ट्या भक्ते लब्धं नक्षत्रमेकं १ गतं तदानीं भरणीस्थचंद्रो जातः । एवं क्रियमाणे अश्विनीप्रारंभसमयात् अश्विन्यतं प्राप्य तत्काले अश्विनी रेवतीं च भुक्त्वा भरणीगतश्चंद्रः । एवं सर्वेषु नक्षत्रेषु तत्कालिकीकरणम् । अथान्यत् । यदा पुष्यादिघषु तत्करणम् । तत् पुण्यभुक्तघटिकाचतस्रः ४ पलानि ५४ ॥ इष्टनाड्यो हता धिष्ण्यैरित्यनेन गुणिते जातम् १३२ । १८ । उपरि षष्ट्या भागे लब्धं नक्षत्रद्वयं २ शेषम् । १२ । १८ । भोग्यनक्षत्रस्य । अत्र पश्चात् भुक्तनक्षत्रं चंद्रस्य सप्त तेन सह नवभुक्तनक्षत्राणि तत्काले मघायां चंद्रास्ति ॥ २ ॥ तथा। चंद्रवत्साधयेदर्कम् । अथ सूर्यस्योदाहरणम् । रोहिण्यर्का : १० पूर्ववत्सप्तविंशतिगुण्या २७ जातं ५४ लब्धं ९ शेष रोहिणीनक्षत्रचतुःसंयुक्तं जातम् १३ । ० ० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy