SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (१०३) तदा मासेन गजवाजिधनानि लभते । गजस्य वाजिनोधनस्य वा दंडेन लाभः । संग्रामे यायी जयीभवति । अन्योपि याता धनानि लभते ।अथ जीवपक्षांगेपि हृदयाख्यसप्तनक्षत्राग्रे षण्नक्षत्राण्युदरसंज्ञकानि । तत्रादित्रयाणां निःफलसंज्ञा । तत्फलम् । अफले त्रिष्विति ।जीवपक्षेपिअफलसंज्ञकनक्षत्रे यदि परदेशंप्रति राजा यायी भवति तदा तद्राज्ञः सकाशात् यायी परपुरनाथात्संधिं लभते।सेवांच लभते तथा आदेशंचआज्ञां देशं वा इदं निश्चितमेव । परंषण्मासपरिमितकालेन । अफलादने त्रीणि नक्षत्राणि झटितसंज्ञकानि । तत्र गतस्य फलम् । फलं प्राप्नोतीति । अत्र गतस्य यायिनो वर्षेण फलं भवति । इति तात्पर्यम् । जीवपक्षाभ्यंतर एव गुदसंज्ञं नक्षत्रम् । तत्र गतस्य फलम् । गुदऋक्षे जयं लक्ष्मीति । याया जयं प्राप्नोति । जयलक्ष्मी च । तदुपरि यथायोग्यां पद्मिनी प्रियवादिनी रूपयौवनसंपन्नां स्त्रियं प्राप्नोति । यथायोग्यामित्यत्र म्लेच्छाधिपतयः शत्रुभूपतीनां स्त्रियमभिलषंति कन्यां वा तदर्थोपन्यासोयम् । जीवपङ्गान्यभिहितानि एतदुपरि मृतपक्षे अंगानि कल्पयित्वा फलानि । तत्र राहोगुंदाग्रे षड्ऋक्षाणि तत्रादौ त्रयाणां राजससंज्ञा । तदने त्रयाणां तामससंज्ञा । ततश्चतुण्णी वृद्धसंज्ञा । ततस्त्रयाणां मृतसंज्ञा। तदने राहुनक्षत्रे जिह्वासंज्ञा ॥ ९॥ मृत ३ विग्रहस्य भवेद्वद्धिर्युद्धे भंगस्तथैव च ॥ रोगपीडा ॥ दशांगराहुकालानलच०॥ भवेद्वर्षे राजसाख्यैस्त्रिता- जिहा १ पुष्पितं ३ फलितं ४ रकैः ॥ १० ॥ हस्त्यश्वपुत्रमित्रादि देशकोशपरिग्रहाः॥ षडिर्मासैर्विनश्यति यायिनस्तामसत्रये ॥११॥ तामसोये चतुष्के च तारका वृद्धसज्ञकाः॥सर्वनाशकराः प्रोक्ता मासकेन न संशयः॥ ॥ १२ ॥ ततस्त्रिमृत्युऋक्षाणि राज्ञां मृत्युकराणि च ॥ अर्थनाशश्च युद्धं च पक्षैकेन फलं स्मृतम् ॥ १३ ॥ युद्धे भंगं महाभीतिद्रव्यनाशं कुलक्षयम् ॥ सद्यो मृत्यु लभेयायी राहुचक्रे सुनिश्चितम् ॥ १४॥ इति दशांगराहुकालानलशुभाशुभफलम् ॥ निःफलितं ३ झटितं ३ वृद्ध ४ है भी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy