________________
(१०२)
नरपतिजयचर्यायायिनं प्रति ॥ संधि सेवां तथा देशं यायी प्राप्नोति निश्चितम् ॥७॥ फलं प्राप्नोति वर्षेण झटितैश्च त्रितारकैः ॥ गोधनान्यरिदानां यायी लुंठति च ध्रुवम् ॥ ८॥
ततश्चत्वारि धिष्ण्यानीति । द्विधांगभेदेनैव यातुनृपस्य जीवपक्षे त्रिपुष्पितऋक्षादग्रे तेन चतुर्षु नक्षत्रेषु फलितसंज्ञेषु यात्रा पंचदशदिनाभ्यन्तरे गजवाजिदेशधनानि ददाति यायिनो नृपस्य ॥ ६॥ अथ तृतीयांगयोगफलमाह । अफलाख्येति । षडंगभेदे उदरांगे यदा युक्तौ चंद्रादित्यौ इत्यर्थेन यदि यायी जीवपक्षे अफलाख्यधिष्ण्यत्रितये परविषयं याति तदा षण्मासात् यायिनागरयोः संधिर्भवति । एवं यायिनो नृपात् स्थायी देशं प्राप्नोति जीवनमित्यर्थः सेवां च प्राप्नोति अर्थाद्यायी स्थायिनो जीवनं दत्त्वा सेवां स्वीकृत्य षण्मासाद्गृहमभ्योत। एवं तथा बृहद्यात्रायां पाइगुण्ये संधिरादौ परिपणरचित इति पाइगुण्ये संधिः कथम् । निश्चलो भवति परिपणरचितः परिपणेन दानेन स्थिरो भवीत । विना दानेन संधिः स्थिरो न स्यात् ॥ ७ ॥ अथ चतुर्थांगमाह । फलं प्राप्नोति । जीवपक्षे अंतिमत्रितारके झटितसंज्ञे याता औरवृन्दानां गोधनानि गाश्च धनानि च लुठयते । इदं फलं वर्षेण भवति । तत्र विशेषः । गुदे संतिष्ठते भानुर्जठरे रोहिणीपतिरिति योगेन गतो राजा दंडयित्वा रिपोः सैन्यं पुनरभ्येति ।जीवपक्षबलात् ॥ ८॥
गुदऋक्षे जयं लक्ष्मी पद्मिनी प्रियवादिनीम् ॥ रूपयौवनसंपन्नां स्त्रियं प्राप्नोति निश्चितम्॥९॥
अथ पंचमांगफलमाह । गुदऋक्षेति । राहुनक्षत्रात्पञ्चदशाम् । तदपि जीवनपक्षे निर्दिष्टम् । चन्द्रादित्यौ यदा युक्तौ जीवपक्षे व्यवस्थितौ । तत्र क्षेमं जयो लाभ इत्यनेन गुदः यदि यायिबलमाश्रित्य विजिगीषू राजा परपुरं याति । तदा यायिवलोक्तं फलं प्रामोति । अधिकं परपुरनिवासिनो जयलक्ष्मीमिव मनोरमां रूपयौवनसंपन्नां कन्यां प्राप्नोति । मासेन यात्राफलं भवतीति । गुदनक्षत्रस्य बलात् । अथ षष्ठांगफलमाह । मृतपक्षे आदौ त्रीणि नक्षत्राणि राजससंज्ञानि । तत्र यात्राफलं ० ॥ विग्रहस्येति । राजसाख्यैर्मृतपक्षे यदि चन्द्रादित्यौ । हृदयादीनीति हृदयांगमारभ्य जिह्वापर्यंतं दशसंख्यान्यंगानि राहुचके राहोदामीत्यर्थः । तेषां दशांगानां नामान्याह । पुष्पितं फलितमिति । राहुभुक्ताणि यानि जीवपक्षसंज्ञानि तदारभ्य दशांगानि विभक्तानि । तत्र राहुस्थितनक्षत्राग्रतः जीवपक्षादि हृदयादिसंज्ञकानि । पंचांगषडंगचक्रे विभतानि सन्ति । पुनस्तान्येवांगानि दशांगेन विभज्यंते । तथा च । हृदयसंज्ञकानि सप्त ऋक्षाणि । तन्मध्ये आदौ त्रयाणां पुष्पितसंज्ञा । तस्मिन्नक्षत्रे राज्ञां यात्राफलमाह। त्रीणि पुष्पितऋक्षाणीति । सुगमम् । ततो हृदयांगेषु पुष्पितसंज्ञा । ततश्चत्वारि धिष्ण्यानीति । एतेषु चतुषु नक्षत्रेषु परपुरग्रहणकामी नरपतिर्यदि प्रस्थितो भवति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com