________________
जयलक्ष्मीटीकासमेता ।
( १०१ )
धिष्ण्यनाथे गुदस्थिते ॥ यायिनो विजयो युद्धे स्थायिनस्तु पराजयः ॥ ४४॥ राहुशीर्षस्थितो भानुः पुच्छक्षेत्रे निशाकरः ॥ अन्योन्यविग्रहं घोरं युद्धं भवति दारुणम् ॥ ४५ ॥ दिनेशो राहुरुद्रांगे चंद्रस्तत्रैव संस्थितः ॥ विनाशं कोशराष्ट्रस्य यायिनो मृत्युमादिशेत् ॥ ४६ ॥ इति कपालादियोगषट्कम् ॥ इति यामलीयस्वरोदये षडंगयोगपट्टम् ॥
कपालेति । कपालं मृतपक्षे अवसानसप्तकमेव । संपुटसंज्ञं जीवपक्षे अंतिमषट्कन - क्षत्रम् ॥ ४३ ॥ कपालसंस्थितेति । कपालांग मृतपक्षे अंतिमषट्कम् । गुदसंज्ञं राहुभात्पञ्चदशमम् ॥ ४४ ॥ राहुशीर्षस्थितेति । राहुशीर्ष मृतपक्षस्य अंतिम सप्तकम् । भानुक्षेत्रं मृतपक्षस्यादिषट्कम् । एतावता किम्। मृतपक्षे द्वावपि स्थितौ ॥ ४५ ॥ दिनेशेति । मृतपक्षे अंतिमसप्तके चंद्रादित्यौ तदा नागरस्य कोशराज्यविनाशः यायिनो मृत्युः ॥ ४६ ॥ इति नरपतिजयचर्यास्वरोदये षंडगराहुकालानलम् ।
हृदयादीनि चांगानि जिह्वांतानि क्रमेण च ॥ दशसंख्यान्यहं वक्ष्ये राहुचक्रस्य मध्यतः ॥ १ ॥ पुष्पितं फलितं चैव निष्फलं झटितं गुदम् ॥ राजसं तामसं वृद्धं मृतं जिह्वां क्रमेण च ॥२॥ पुष्पिते त्रीणि चत्वारि फलिते निष्फले त्रयम् ॥ झटिते त्रीणि ऋक्षाणि गुदे चैकं भवेत्तथा ॥ ३ ॥ राजसे त्रीणि ऋक्षाणि तामसे च तथा त्रयम् ॥ वृद्धे चतुष्टयं त्रीणि मृतौ चैकं तथा मुखे ॥ ४ ॥ त्रीणि पुष्पितऋक्षाणि क्षेमलाभकराणि च ॥ शत्रुभंगो भवेयुद्धे यात्रा मासेन लाभदा ॥ ५ ॥
अथ राहुभादीनाम् अष्टाविंशतिनक्षत्राणां दशांगभेदेन दशांगराहुकालानलं वदति । हृदयादीनीति ॥ १ ॥ पुष्पितमिति ॥ २ ॥ ३ ॥ ४॥ क्रमेण नक्षत्रांगसंख्याफलमाह । त्रीणि पुष्पितऋक्षाणीति । जीवपक्षस्यादित्रिनक्षत्राणां पुष्पितसंज्ञा । तत्र यात्रा द्विधांगभेदेन० जीवपक्षे क्षपानाथे मृतपक्षे स्थिते खावित्यनेन योगेन । अथवा राहुवऋस्थिते सूर्ये चंद्रे कामांगसंस्थित इत्यनेन च जीवपक्षस्य आदित्रिनक्षत्राभ्यंतरे यायिनो राज्ञो यात्रा क्षेमलाभकत्र शत्रोः पराजयः इदं फलं मासेनैव यात्राफलमिति ॥ ५ ॥ ततश्चत्वारि धिष्ण्यानि पक्षैकन फलंति च ॥ गजवाजिधनं देशं यायी तु लभते ध्रुवम् ॥ ६ ॥ अफलाख्यत्रिधिष्ण्येषु षण्मासे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com