________________
(१००)
नरपतिजयचर्यागृह्ये दिनकरो यत्र तत्र वै यामिनीकरः ॥ समं युद्धं भवेत्तत्र किंचिदागंतुके जयः ॥ ३४ ॥ इति गुदादियोगषट्रम् ॥ सूयाँगस्थः सहस्रांशुर्जिह्वायां शीतगुः स्थितः ॥ स्थायिनो विजयं विद्यात् यायिनश्च पराभवः ॥३५॥. पुच्छक्षेत्रे स्थितो भानू रुद्रक्षेत्रे तु चंद्रमाःयायिनो मृत्युमायांति जयलाभौ च स्थायिनः ॥३६ ॥ पुच्छषटे यदा भानुः कामांगे चंद्रमाः श्रितः ॥ यायी विजयते तत्र शक्रतुल्यपि वैरीिण ॥ ३७॥ अंशुमाली भवेद्वजे जठरे तु सुधाकरः ॥ आदत्ते रिश्रियं जित्वा सर्वान्यायी रणांगणे ॥३८॥
गुह्ये दिवाकरोति । गुह्यं गुदमिति पंचदशमम् । आगंतुको यायी किंचित् जयेत् ॥ ॥ ३४ ॥ इति मुदादियोगषटकम् । अथ वज्रांगयोषट्कमाह । सूर्यागस्थ इति॥ ३५॥ पुच्छक्षेत्रेति । पुच्छांगं मृतपक्षस्यादिषट्कम् । रुद्रांग राहुनक्षत्रम्॥३६॥पुच्छषट्केति । कामांगं जीवपक्षस्यादिसप्तकम् ॥३७॥ अंशुमालीति । पुच्छषट्कं मृतपक्षस्यादिषण्नक्षत्रम् । जठरांग जीवपक्षस्यावसानषण्नक्षत्रम् ॥ ३८॥
भास्करे राहुपुच्छस्थे मृगांके गुदमाश्रिते ॥ समं युद्धं भवेत्तत्र किंचिद्यायी जयी भवेत् ॥ ३९ ॥ सूर्याचंद्रमसौ यत्र वज्रांगे यदि संस्थितौ ॥ सैन्ययोरुभयोस्तत्र वधो भवति मिश्रितः ॥ ४० ॥ इति वज्रांगषट्रम् ॥ रुद्रांगस्थे दिवानाथे रुद्रजिहांगगः शशी ।। स्थायिनस्तु जयस्तत्र भंगो भवति यायिनः ॥४१॥ राहशीर्षस्थिते मित्रे शशांके हृदि संस्थिते ॥ विना युद्धेन गृह्णाति यायी करमरिश्रियः॥ ४२ ॥
भास्करे राद्विति । गुदर्के राहुनक्षत्रात्पंचदशम् ॥ ३९ ॥ सूर्याचंद्रमसाविति वज्रांग मृतपक्षस्यादिषट्कम् । तेन किम्।मृतपक्षे यदि सूर्याचन्द्रमसौ भवतः। अत्र योगे नागरयायिनृपसैन्यद्वयवधः॥४०॥ इति वज्रांगयोगषट्कम् । अधुना षडंगे षष्ठयोगमाह । रुद्रांगस्थे दिवानाथेति । रुद्रांगं मृतपक्षेतिमसप्तकम् । जिह्वांगं राहुनक्षत्रम् ॥४१॥राहुशीर्षस्थितेति । राहुशीर्ष मृतपक्षस्यांतिमसप्तके । हृदयांगं जीवपक्षस्यादिसप्तकम् ॥ ४२ ॥ कपालसंश्रितः सूर्यः संपुटस्थो यदा शशी ॥ यायिना जीयते शत्रुः स्थायिनो भंगमादिशेत् ॥ ४३ ॥ कपालसंस्थिते सूर्ये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com