________________
जयलक्ष्मीटीकासमेता।
(९९) ॥ २४ ॥ कामांगस्थः सहस्रांशर्मस्तकस्थो निशाकरः ॥ याता भंगमवाप्नोति स्थानवासी जयी रणे ॥ २५ ॥ भानावुदरगे यत्र निशेशो राहुवक्रगः ॥ अग्रयायी क्षयी तत्र स्थाता जयति नान्यथा ॥ २६ ॥ स्वभीनदरगो भानुहृदये तारकाधिपः ॥ अनायासेन संग्रामे यायिनो जयमांदिशेत् ॥ २७ ॥
अथोदरादियोगषट्कमाह । उदरस्थे दिवानाथेति । उदरे जीवपक्षस्योत्तरषट्के । मुदे पञ्चदशनक्षत्रे संपुटस्थो यदेति । संपुटे जीवनपक्षस्यांत्यषट्के । पुच्छे मृतपक्षस्यापि षटके ॥ २४ ॥ कामांगस्थः सहस्रांशुरिति । कामांगस्थे जीवपक्षस्यादिसप्तके मस्तकस्थे । मृतपक्षस्यांतसप्तके ॥२५॥भानावुदरगेति । जीवपक्षस्यादिसप्तनक्षत्रे उदरसंज्ञे रविः अग्रवादी यायी क्षयी न जयतीत्यर्थः । स्थायी जयति ॥२६॥ स्वर्भानूदरगेति। राहूदरांगं जीवपक्षस्यावसानषट्कम् । हृदयांग जीवपक्षस्यादिसप्तकम् ॥ २७ ॥ उदरांगे यदा युक्तौ चंद्रादित्यौ व्यवस्थितौ॥तदा संधि संदेहः सैन्ययोरुभयोरपि ॥ २८॥ इत्युदरादियोगषटम् ॥ केतुधिष्ण्यस्थिते सूर्य चंद्रे पुच्छांगसंस्थिते ॥ यायिभंगो जयी स्थायी
भाषितं ब्रह्मयामले ॥ २९ ॥ गुदे तीक्ष्णांशुसंयुक्ते कपालस्थे निशाकरे॥यायी च भज्यते तत्र स्थायी जयति नान्यथा ॥३०॥ गुदक्षसंस्थिते सूर्ये राहुऋक्षस्थितः शशी ॥ महाहवो भवेद्धोरः किंचित् स्थायी जयी रणे ॥ ३१ ॥ भानुरुद्भिलिते ऋक्षे शशभृत्संपुटे तदा ॥ यायिनो विजयस्तत्र स्थायिनो भंगमादिशेत् ॥ ३२ ॥ गुह्यांगे वर्तते भानुर्जठरे रोहिणीपतिः॥ दंडयित्वा रिपोःसैन्यं याताभ्येति निजालयम् ॥ ३३ ॥
उदरांगेति । उदरांग जीवपक्षस्यावसानषट्कम् । तत्र रविचंद्रौ। अस्मिन् योगे यात्रा शत्रुसमागमोवा तदा संधिरेव॥२८॥इत्युदरादियोगषटकम्॥अथ गुदादियोगपटकमाह । केतुधिष्ण्यस्थितेति। केत्वंगपंचदशमं नक्षत्रम् । पुच्छांगं षोडशादिषट्।।२९॥ गुदे तीक्ष्णमिति । गुदांगराहुनक्षत्रात् पंचदशमम्। कपालं मृतपक्षे अवसानसप्तक्षम् ॥३०॥गुदर्केति। सुगमम् ॥३१॥भानुरुद्गिलितेति । उद्गिलितं गुदा पंचदशमम्। संपुटसंज्ञं जीवपक्षस्यादिसप्तकम् ॥३२॥ गुह्मांगेति । जठरं जीवपक्षस्यावसानषट्कम् ॥ ३३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com