SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ (९८) नरपतिजयचर्यातेन विना आकुलता भवति । परस्परं भयं मनुते अस्माकं कटके शत्रुः पतित इति ॥ १५ ॥ राहुधिष्ण्यस्थितो भानुरिति ॥ १६ ॥ इति मुखादिषट्कम् । हृदयस्थे दिवानाथे जठरस्थे निशाकरे ॥ निर्दिष्टः स्थायिनो मृत्युर्यायी भवति निर्बणः ॥ १७ ॥ हृदयस्थो यदा भानुः शशांको गुदमाश्रितः ॥ हेलया जयते यायी स्थायी च म्रियते रणे ॥१८॥ हृदयस्थे दिवानाथेति । हृदये जीवपक्षस्यादिसप्तनक्षत्रे जठरे जीवपक्षे सप्तनक्षत्रादुपरि षटनक्षत्रे यथाक्रमं सूर्य चंद्रे स्थिते अस्मिन् सति यदि युद्धं तदा स्थायिसंज्ञस्य मृत्युः स्थायी पश्चात्क्षेत्रगामी पश्चाद्वादकारी वा स्थायी पौरसंज्ञो वा राजा । अस्मिन् योगे स्वजयोपायं कुर्यात् पुरपतिः।भक्ष्याभक्ष्यं भटस्य विचार्य अन्यं पुरनाथं कुर्यात् । अथवा पौरो राजा सकलबलैः समवेतः परचक्रागमोपरि भूवलं पृष्ठतः कृत्वा पतेत् । स्वयमेवं यायी भूयात् । यतः प्रथमघातकारी यांयिसंज्ञः कथितः ॥ १७ ॥ हृदयस्थे दिवानाथेति ॥ १८ ॥ कामांगस्थे दिवानाथे पुच्छषटे निशाकरे ॥ स्थायिनो विजयस्तत्र यायिनश्च पराभवः ॥ १९ ॥ संपुटस्थो यदादित्यो रुद्रांगे चंद्रमाः श्रितः ॥ यायी च भंगमाप्नोति किंचित् स्थायी जयी रणे ॥ २० ॥ कामांगस्थे दिवानाथे चंद्रे राहमुखस्थिते ॥ संग्रामे विजयी स्थायी यायिनो भंगमादिशेत् ॥ २१॥ हृदयांगे यदा युक्तौ चंद्रादित्यौ व्यवस्थितौ ॥ दैत्यानपि जयेद्यायी किंपुनर्मानवं बलम् ॥ २२ ॥ इति हृदयादियोगषट्रम् ॥ कामांगस्थे दिवानाथेति । कामांगं जीवपक्षस्यादिसप्तमं पुच्छषट्कम् मृतपक्षस्यादौ षट नक्षत्रम्॥१९॥संपुटस्थो यदेति । संपुटं जीवपक्षस्याऽऽदिमसप्तकम् । रुद्रांगं मृतपक्षस्यांतिमसप्तकम् ॥२०॥ कामांगस्थे दिवानाथेति । कामांगं जीवपक्षस्यादिसप्तकं तत्रस्थे रखौ ॥ २१ ॥ हृदयांगे यदा युक्ताविति । किंच जीवपक्षे अंगद्वयेपि सूर्याचंद्रमसौ यदा भवतस्तदा यायिनामेव जयः । यायी परचक्रागमः । तथा च लल्लः । यावत्स्वविषये सीमा नागर इह तावदुच्यते राजा । लभते स यायिसंज्ञां स्वविषयसीमां परित्यज्य ॥ २२ ॥ इति हृदयादियोगषटकम् । उदरस्थे दिवानाथे निशानाथे गुदस्थिते ॥ समं युद्धं भवेत्तत्र किंचिद्यायी जयी रणे ॥ २३॥ संपुटस्थो यदा भानुः पुच्छे भवति चंद्रमाः ॥ यायिभंगो जयी स्थायी तत्र काले न संशयः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy