________________
जयलक्ष्मीटीकासमेता ।
(९५)
संपुटस्थेति । संपुटमित्यनेन जीवपक्ष: जिह्वाराहुस्थाननक्षत्रं शेषं सुगमम् ॥ १८ ॥ जठरस्थो यदा भानुरिति । जठरमित्यनेन जीवपक्षस्त्रयोदशेति जीवपक्षस्थौ रविचंद्रावित्यर्थः ॥ १९ ॥ इत्युदरादियोगपंचकम् १ द्वितीयांगः । चंद्रांगस्थो यदादित्य इति चंद्रागस्य इत्यनेन राहोः पंचदशमं नक्षत्रम् | सूर्यागस्थमिति पंचदशर्क्षाद्यं नक्षत्रम् ॥ ॥ २० ॥ गुदे तीक्ष्णांशुसंयुक्तेति ॥ २१ ॥ गुद संस्थितः सूर्य इति ॥ २२ ॥ भानुक्षेत्रस्थितो भानू रुद्रक्षेत्रे च चंद्रमाः ॥ यायिनो मृत्युमाधत्ते जयलाभौ स्थितस्य च ॥ २३ ॥ सूर्यागे च सहस्रांशुर्जि - ह्वायां शीतगुः स्थितः ॥ यायिनश्च जयं दद्यात्स्थायिनो भंगमादिशेत् ॥ २४ ॥
इति गुदादिपंचकम् । भानुक्षेत्रस्थित इति। राहुस्थितनक्षत्रात् षोडशादिषण्नक्षत्राणि सूर्यांगसंज्ञानि । द्वाविंशतिनक्षत्रात् सप्त नक्षत्राणि रुद्रसंज्ञानि । अत्र भानुक्षेत्रे भानुः । रुद्रक्षेत्रे चंद्रमाः । अस्मिन् योगे यायी गच्छतीति यायी अग्रक्षेत्रगामी मृत्युमाप्नोति । स्थितस्य स्थायिनः पश्चात् गामिनो जयलाभौ भवतः संग्रामे जयः लाभस्तु राजवर्गादितः अथवा संग्राम एव सुवर्णाद्यश्वखङ्गसन्नाहादीनां लाभः ॥ २३ ॥ सूर्यांग इति । सूर्यांगं प्रागुक्तमेव । जिह्वा राहुवर्त्तमाननक्षत्रम् । शेष सुगमम् ॥ २४ ॥ पुच्छष यदादित्यो जीवांगे चंद्रमाः स्थितः ॥ यायी विजयते तत्र शक्रतुल्येपि वैरिणि ॥ २५ ॥ भास्करे राहुष्पृष्ठस्थे मृगांके गुदमाश्रिते ॥ समयुद्धं भवेत्तत्र किंचिद्यायी जयी भवेत् ॥ २६ ॥ सर्याचंद्रमसौ यत्र वज्रांगे समुपस्थितौ ॥ द्वयोस्तु बलयोस्तत्र वधो भवति निश्चितम् ॥ २७ ॥
पुच्छषट्के इति । पुच्छषट्कं प्रागुक्तमेव सूर्यांगम् । जीवा जीवपक्षस्त्रयोदशक्षणि । एवंविधे योगे संग्रामे इंद्रतुल्ये शत्रौ स्थिते सति स्वल्पबलोपि यायी गुणयुतो विजयते । अर्थादधिकबलमपि जयति ॥ २५ ॥ भास्करे राहुपृष्ठस्थे इति । राहुपृष्ठनक्षत्रं प्रागुक्तमेव सूर्यांगम्। गुदनक्षत्रं तु पंचदशमर्क्षम् अस्मिन् योगे सममेव युद्धं किंचिज्जयो यायिनः वाङ्मात्रम् ॥ २६ ॥ सूर्याचंद्रमसौ यत्रेति । यदेव सूर्योगं तदेव वज्रांगम् । वज्रांगे यदि सूर्याचंद्रमसौ स्थितौ भवतः अस्मिन् योगे बलद्वयस्यापि क्षयः स्यात् ॥ ॥ २७ ॥ इति वज्रांगपंचके तृतीयांगमभिहितम् ॥ ३ ॥
रुद्रांगस्थे दिवानाथे राहुजिह्वां गतः शशी ॥ स्थायिनस्तु जयस्तत्र भंगो भवति यायिनः ॥ २८ ॥ कपालसंस्थिते सूर्ये संपु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com