________________
( ९४)
नरपतिजयचर्याराहुनक्षत्रतो भानुश्चंद्रो रुद्रांगगो रणे ॥ स्थायिनो विजयो युद्धे यायिनो मृत्युमादिशेत् ॥ १३ ॥ इति पंचांगम् । अथ फलं विचारयितुमाह । स्थिररूप इति । भानुश्चन्द्रापेक्षया स्थिररूपः। एकनक्षत्रेसादत्रयोदशचतुर्दशभिदिनैः स्थितिः चन्द्रस्य षष्टिघट्यैकनक्षत्रे स्थितिः अतो खेः स्थिररूपत्वम्॥९॥आभ्यां योगपंचकमाह ।राहुक्क्रस्थितेति ॥१०॥चन्द्रागसंस्थितेति। चंद्रांगमित्यनेन राहुवर्तमाननक्षत्रं गुदनक्षत्रं राहुवर्तमाननक्षत्रात् पंचदशमम् । शेषं सुगमम् ॥ ११॥ भास्करेति । वज्रांगमित्यनेन राहुवर्तमानात् षोडशनक्षत्रादिषटकम् ॥ १२ ॥ राहुनक्षत्रग इति । रुद्रांगमित्यनेन राहुवर्तमाननक्षत्रात् पश्चातन्नक्षत्रसप्तकम् ॥ १३ ॥ यदा भवेतां चंद्राकौं राहुवांगसंस्थिता ॥ सैन्ययोश्च क्षयस्तत्र संदेहायायिनो जयः ॥ १४ ॥ सविता जीवपक्षे च निशानाथो गदे स्थितः ॥ निर्दिष्टः स्थायिनो भंगो यायिनः सक्षतो जयः॥ ॥ १५ ॥ उदरस्थो यदा भानुः शशांको वज्रमास्थितः ॥ हेलया जीयते स्थायी यायी च म्रियते रणे ॥ १६ ॥ कामांगस्थे दिवानाथे मस्तकस्थे निशाकरे ॥ स्थायिनो विजयस्तत्र यायि. नश्च कुलक्षयः ॥ १७ ॥
यदा भवेतामिति ॥१४॥ इति मुखादियोगपञ्चकं प्रथममंगम् । सविता जीवपक्षे चेति ॥१५॥ उदरस्थो यदा भानुरिति । वज्रांगमिति राहुपंचदशात् षट् नक्षत्रं वज्रांगमिति ॥ १६ ॥ कामांगस्थेति । राहुवर्तमानात् पश्चात्सप्त नक्षत्राणि शिरोंगम् ॥ १७ ॥ संपुटस्थो यदादित्यो जिह्वायां चंद्रमाः स्थितः ॥स्थायी च भंगमायाति किंचिद्यायी जयी रणे ॥ १८ ॥ जठरस्थो यदा भानुश्चंद्रस्तत्रैव संस्थितः॥ देवानपि जयेद्यायी किं पुनः प्रतिमं बलम् ॥ १९ ॥ चंद्रांगस्थो यदादित्यः सूर्यांगे चंद्रमाः स्थितः ॥ समयुद्धं भवेत्तत्र किंचिदागंतुको जयी ॥ २० ॥ गुदै तीक्ष्णांशुसंयुक्ते कपालस्थोथ शीतगुः ॥ यायी च भज्यते वश्यं स्थितः स्थायी जयं विना ॥२१॥ गुदभे संस्थितः सूर्यो राहुभे संस्थितः शशी ॥ तदा महाहवो घोरः किंचित्स्थायी जयी भवेत् ॥ २२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com