________________
जयलक्ष्मीटोकासमेता।
(९३) विधंतदः ॥३॥ यत्रःसंस्थितो राहुस्तस्य नामानि वच्म्यहम् ॥ गलितं कर्तरी जिह्वा चंद्रगं वदनं तथा ॥ ४॥ राहुऋक्षाग्रतो यानि भुक्तभानि त्रयोदश ॥ उदर संपुटं जीवं कामांगं जठरं च हृत् ॥ ५॥ इति द्वितीयमंगम् ॥
अथ पंचांगभेदेनेति ॥ १ ॥ राहुः पातेति । अत्र यद्यपि राहुः शिरोमात्रं तथापि ब्रह्मणा ब्रह्मयामले राहोनक्षत्रात्मकं पंचांगसंज्ञा कल्पिता । तथा च ॥ २ ॥ मुखाद्यंगस्येति । अत्र राहुः पंचांगचक्रे । प्रथमतो मुखादिपंचांगं वदामि । तत्फलं च तद्धेतुमाह । विधुन्तुदोस्य राहोः पंचांगरूँ पृथक् पृथक् विभक्तपञ्चांगनक्षत्रे चन्द्रसूर्ययोर्धमणात् फलं वदामि ॥ ३ ॥ पृथक् पृथगंगानि पञ्चाह । यत्रर्भसंस्थित इति । यस्मिन्नक्षत्रे राहुस्तस्य नक्षत्रस्यैतानि नामानि । गलितं कर्तरीत्यादीनि ॥ ४॥ मुखादन्यांगनक्षत्रविभागमाह । “राहुऋक्षाग्रतो यानि भुक्तभानि त्रयोदश । उदरं संपुटं जीवं कामांग जठरं हृदिति " राहुवर्तमाननक्षत्रादग्रस्थानि त्रयोदशआणि जीवपक्षः तस्यैतानि नामानि उदरसंज्ञाः संपुटसंज्ञाः जीवसंज्ञा कामांगं जठरं च हृदिति ॥ ९॥ द्वितीयमंगम्। उदरादग्रनक्षत्रं यत्पंचदशमं मुखात्॥ गुदमुद्गिलितं गुह्य केतुश्चंद्रांगकर्तरी ॥६॥ इति तृतीयांगम् ॥ गुदभान्यग्रतो यानि ऋक्षाणि रससंख्यया ॥ पुच्छं सूर्यागवांगं पृष्ठो मृत्युः क्रमेण च॥ ७ ॥ शेषाणि सप्तभान्यत्र मध्यस्थान्यास्यपुच्छयोः॥ कपालं मस्तकं शीर्ष रुद्रांग भोग्यमंडलम् ॥ ८ ॥ इति पंचमांगम् ॥
अथ तृतीयमंगमाह । उदरादयनक्षत्रमिति । राहुवर्तमाननक्षत्रात् पंचदशमस्यैतानि नामानि । गुदमुद्गिलितमित्यादि ॥६॥ इति तृतीयांगम् ३ गुदभान्यग्रतो यानीति । सुगमम् ॥ ७ ॥ शेषाणि सप्तभान्यत्रेति ॥ ८॥ स्थिररूपस्थितो भानुश्चररूपश्च चंद्रमाः ॥ क्रमेणैकैकयोगानां वक्ष्येहं योगपंचकम् ॥ ९॥ राहुववे स्थिते सूर्ये चंद्रे कामांगसंस्थिते॥ यायिनो विजयस्तत्र स्थायिनो भंगमाहवे ॥ १० ॥ चंद्रांगसंस्थिते सूर्ये गुदे चंद्रे समाश्रिते ॥ अग्रयायी जयेदयुद्धे बलाई च क्षयं गते ॥ ११ ॥ भास्करे गिलितांगस्थे चंद्रे वज्रांगसंस्थिते ॥ बलद्वये क्षयं याति किंचित्स्थायी जयी रणे ॥ १२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com