________________
(९२)
नरपतिजयचर्याअर्थाद्यन्नक्षत्रस्थो राहुस्तन्नक्षत्रमपि मृतपक्षे यत्र केतुः पुच्छः तत्तु जीवपक्षे। एवं साभिजिचतुर्दशर्माणि भुक्तानि जीवपक्षः। चतुर्दशैव भोग्यानि मृतपक्षः ॥ १६ ॥ तथा च । मृतपक्षे मुखं तस्येति ॥ १७ ॥ अथांगद्यकर्तव्यमाह । जीवपक्षे क्षपानाथेति । जीवपक्षे यदि चन्द्रः संचरति । मृतपक्ष रविः संचरति । तस्मिन् समये विजयी राजा दिग्विजयाय यात्रां कुर्यात् । विपरीतेति । विपरीता यात्रा हानिदा भवति । कोर्थः । मृतपक्षे राहुभोक्तव्यचर्तुदशनक्षत्रे यावच्चंद्रः संचरति । भुक्तपक्षे भुक्तचतुर्दशनक्षत्रे रविः संचरति । अस्मिन्काले दिग्विजयादियात्रा हानिदा ॥ १८॥
चंद्रादित्यौ यदा युक्तौ जीवपक्षे व्यवस्थितौ ॥ तत्र क्षेमं जयो लामो यात्राकाले न संशयः ॥ १९ ॥ मृतपक्षे यदा काले संस्थितौ शशिभास्करौ ॥ तदा हानिर्भयं भंगो मृत्यू राज्ञां प्रजायते ॥ २० ॥ जीवपक्षे स्थिते चंद्रे कार्य स्यादमृतोपमम् ॥ मृतपक्षे मृतं ज्ञेयं यतश्चंद्रबलाबलम् ॥२१॥ इति द्विधांगराहुचक्रम् ॥
अथैकांगे वर्त्तमानौ रविचन्द्रौ यदि तदा यात्राफलमाह । अथादौ जीवपक्षः। चंद्रादित्यौ यदति । यात्राकाले चंद्रादित्यौ जीवपक्षे यदि संचरतस्तदा प्रथमतः क्षेमं भवति पश्चात्सङ्ग्रामे जयः कुशलेन पश्चाल्लाभः । जयलक्ष्म्या लाभः । शत्रोरश्वाः प्राप्यन्ते । गजाश्च धनानि च प्राप्यन्ते ॥१९॥ अथ मृतपक्षे वर्तमानयो रविचन्द्रमसोः काले यात्राफलमाह । मृतपक्षे यदेति। यस्य राज्ञो यात्रायां चन्द्रादित्यौ मृतपक्षे भवतः तदा हानिः। अश्वगजधनादीनि संग्रामे शत्रुगृह्णाति । भयं भवति ॥ भंगः संग्रामात्पलायनम् । मृत्युरापि ॥ २० ॥ अथ चन्द्रे जीवपक्षस्थे यात्रादिशुभोत्कर्षमाह । जीवपक्षे स्थिते चन्द्र इति ॥ २१ ॥ इति यंगराहुः ॥ अथ पंचांगराहुः ॥ अथ पंचांगभेदेन ॥ पंचांगराहुच०॥ राहुचक्रं वदाम्यहम् ॥मुखोदरौ गुदं पुच्छं १ कपालं तस्य पंचमम् ॥ १ ॥ राहः पातस्तमो बिंबं संहारे वक्रगो ग्रहः ॥धूम्रपुच्छो ग्रहग्रासः सांगः केतुरुच्यते ॥२॥ मुखाद्यंगस्य नामानि फलं चापि वदाम्यहम् ॥ भ्रमणाचंद्रसूर्यस्य पंचांगः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com