________________
जयलक्ष्मीटीकासमेता। (९१) च ॥ तस्य नामान्यहं वक्ष्ये मुखपुच्छक्रमेण च ॥९॥ राहुश्चैव तमः पातः स्वर्भानुः सिंहिकासुतः ॥ दैत्यच्छाया शिरोवर्क ग्रहारिश्च विधुतुदः ॥१०॥
वेदागमपुराणेति ॥६॥ दुष्टारिष्टेष्विति ॥७॥ यः कालरूपोत ॥ संहारेण वामावर्तेन नक्षत्रमिव पश्चान्मुखं भ्रमति ॥ ८॥ ग्रहग्रासेति ॥ ९॥ राहुश्चैवेति ॥ १० ॥ पुच्छ केतुः शिखी सो गुदं गुह्यं तटं मतम्।।उत्पातो विषगर्भश्च धूम्रकायो ग्रहांतिमः ॥ ११ ॥ ऋक्षाधारगतो राहुः सर्परूपेण संस्थितः॥ तस्य चक्र प्रवक्ष्यामि राहुकालानलात्मकम् ॥ १२ ॥ शलाकासप्तकं चक्रमीशादौ कृत्तिकादिकम्॥ अष्टाविंशति नक्षत्रं साभिजित्सव्यमालिखेत् ॥ १३ ॥ यत्रः संस्थितो राहुर्वदनं तद्विनिर्दिशेतामुखात्पंचदशे ऋक्षे तस्य पुच्छं व्यवस्थितम् ॥१४॥ एकोत्तरशतं संख्या जायते यत्र केतवः॥ व्याप्नुवंति जगत्सर्व सहस्रार्कसमत्विषः ॥ १५॥
पुच्छं केतुरिति ॥ ११॥ ऋक्षाधारेति ॥१२॥ शलाकासप्तेति । सव्यमीशानाग्नेयादिक्रमेण लिखेत् ॥ १३ ॥ १४ ॥ एकोत्तरेति ॥ १५ ॥
राहुभुक्तानि ऋक्षाणि जीवपक्षे त्रयोदश ॥ त्रयोदशैव भोग्यानि मृतपक्षः प्रकीर्तितः ॥१६॥ मृतपक्षे मुखं तस्य गुदं जीवांगमध्यमम् ॥ एवमंगद्वयो राहातव्यः स्वरपारगैः ॥ १७॥ जीवपक्षे क्षपानाथे मृतपक्षे रवौ तथा।तस्मिन्काले शुभा यात्रा विप, रीता तु हानिदा ॥ १८ ॥
अथ द्विधांगराहुमाह । राहुभुक्तानि ऋक्षाणीति । कल्पादौ राहू रेवत्यंते नक्षत्रचक्रे. स्थापितः। तस्य स एवादिः । गणितविधिरश्विन्यादिप्रवृत्तः । तेन गणितेन यस्मिनक्षत्रे आगच्छति । तत्र तस्य मुखं नक्षत्रावधिरेवतीतः पश्चान्नक्षत्राणि भुक्तानि भवंति । अश्विन्यन्तं भोग्यानि । वर्तमानराहुनक्षत्रादग्रतस्त्रयोदशऋक्षाणि जीवपक्षः। चतुर्दशे केतुः । अर्थात् राहुनक्षत्रात् पंचदशज्ञ तदादितस्त्रयो दशनक्षत्रं मृतपक्षः । तथा च । रेवत्यां यदा राहुस्तदा अश्विन्यायारभ्य हस्तपर्यंत जीवपक्षः। तदग्रं चित्रायां केतुः पंचदशमं तत् । स्वात्यादौ त्रयोदशः मृतपक्षः। एवं यदा यस्मिन्नक्षत्रे राहुस्तत्पश्चान्नक्षत्राणि त्रयोदश भोग्यानि भवन्ति। अतो मृतपक्षः एवं मृतपक्षे तस्य मुखम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com