SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [बिलास.. ___ अत्र साक्षान्मङ्गल (न्मरण ?) स्यामङ्गलत्वाविरोधिकान्तासु तदनुकूलप्रयत्नमात्रवर्णवम् । 'आकस्मिकभयाचित्तक्षोभस्त्रासः प्रकीर्तितः।' यथा मुखकमलमधूलीसौरभास्वादमाद्य अमरकुलनिनादात्केवलं तृप्त ( त्रस्त ? ) चित्ता। वनभुवि विचरन्ती सा सखीभिर्लताङ्गी सरभसपरिरब्धा नञ्जभूपेन साऽभूत् ॥ 'सन्देहात्कल्पनानन्त्यं विकल्पः परिकीर्तितः।' यथा समाहूय प्रेमप्रसरसरसैस्तैर्विलसितै रपाङ्गव्यापारान् किरति मयि नाक्षितिपतौ । सुधाभिः संसिक्तं स्लपितमथ कर्पूरसलिलै द्रवीभूतं प्रेम्णा वपुरिति न जाने पुनरहम् ॥ अथ शृङ्गारचेष्टा निरूप्यन्ते। 'भावो हावश्च हेला च माधुर्य धैर्यमित्यपि । लीलाविलासो विच्छित्तिर्विभ्रमः किलकिश्चितम् ॥ मोहायितं कुमितं बिब्बोकं ललितं तथा । कुतूहलं च चकितं विहृतं हास इत्यपि ॥ एवं शृङ्गारचेष्टाः स्युरष्टादशविधाः स्मृताः।' तासां स्वरूपमुदाहरणं च 'रसाभिज्ञानयोग्यत्वं भाव इत्यभिधीयते।' यथा दरविकसदपाङ्गैदर्शितस्नेहसारं कलरवकमनीयं कम्पयन्ती च शीर्षम् । स्तनतटमधिनीतां वादयन्ती विपश्ची मद्यति मदिराक्षी मानसं ननभर्तुः॥ 'ईषदृष्टिविकारस्तु भावो हावः प्रकीर्तितः । OL. वा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy