________________
विलास. ४ ]
चिरप्रणयसूचकैर्नवनवोन्मषद्विभ्रमैः पुरो नयनगोचरे भवति नञ्जभूवल्लभे । कलकणितमेखलं नवनिरुद्धनीवीपुढं मनाग्विलसितेक्षणं लघु समुज्जिहीते वधूः ॥ 'सुव्यक्तविक्रियो भावो हेलेति प्रतिपाद्यते ।'
यथा
▬▬
रहःक्रीडालापान्रचयति निजालीपरिजने मनागप्यानीते श्रवणसरणिं नञ्जनृपतौ । समन्तादुज्जृम्भत्कुचलितकूर्पासनिचयः
प्रगल्भः कोऽप्यस्याः स्पृशति हृदयं मोहक्सिरः ॥ 'अभूषणेऽपि रम्यत्वं माधुर्यं परिकीर्त्यते ।'
यथा
रसनिरूपणम्
यथा
तदस्या लावण्यं तव हि सदृशं नञ्जनृपते ॥ 'शीलाद्यलङ्घनं नाम धैर्यमित्यभिधीयते । '
―
दृशोः सूते कान्तिः कुवलयवनानि प्रतिदिशं स्मितज्योत्स्नापूर: सृजति शतमिन्द्रन्वियति च । तनुच्छाया सेयं स्थगयति दिगन्तानविरलं
यथा
आबाल्यादनुवर्तनैकरसिकं पत्युस्तदेतन्मनः शुश्रूषासफलीकृतं नियमतः प्रायो गुरूणां वपुः । केनापीदमनिन्दितं कचन वा किश्चास्मदीयं कुलं दुर्लधं तदपीह नञ्जनृपतिस्तादृग्गुणानां निधिः ॥ 'प्रियानुकरणं लीला वाग्भिर्गत्यादिचेष्टितैः । '
मनाक्क्रीडायासे शिशिरमुपचारं रचयति स्फुटोत्कण्ठे गाढं घटयति परीरम्भमसकृत् । निमग्रे मोहान्धौ स्वयमपि च मज्जत्यतिभृशं विलासैरप्यन्यैरनुसरति सा नञ्जनृपतिम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
५१
www.umaragyanbhandar.com