SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विलास. ४ ] चिरप्रणयसूचकैर्नवनवोन्मषद्विभ्रमैः पुरो नयनगोचरे भवति नञ्जभूवल्लभे । कलकणितमेखलं नवनिरुद्धनीवीपुढं मनाग्विलसितेक्षणं लघु समुज्जिहीते वधूः ॥ 'सुव्यक्तविक्रियो भावो हेलेति प्रतिपाद्यते ।' यथा ▬▬ रहःक्रीडालापान्रचयति निजालीपरिजने मनागप्यानीते श्रवणसरणिं नञ्जनृपतौ । समन्तादुज्जृम्भत्कुचलितकूर्पासनिचयः प्रगल्भः कोऽप्यस्याः स्पृशति हृदयं मोहक्सिरः ॥ 'अभूषणेऽपि रम्यत्वं माधुर्यं परिकीर्त्यते ।' यथा रसनिरूपणम् यथा तदस्या लावण्यं तव हि सदृशं नञ्जनृपते ॥ 'शीलाद्यलङ्घनं नाम धैर्यमित्यभिधीयते । ' ― दृशोः सूते कान्तिः कुवलयवनानि प्रतिदिशं स्मितज्योत्स्नापूर: सृजति शतमिन्द्रन्वियति च । तनुच्छाया सेयं स्थगयति दिगन्तानविरलं यथा आबाल्यादनुवर्तनैकरसिकं पत्युस्तदेतन्मनः शुश्रूषासफलीकृतं नियमतः प्रायो गुरूणां वपुः । केनापीदमनिन्दितं कचन वा किश्चास्मदीयं कुलं दुर्लधं तदपीह नञ्जनृपतिस्तादृग्गुणानां निधिः ॥ 'प्रियानुकरणं लीला वाग्भिर्गत्यादिचेष्टितैः । ' मनाक्क्रीडायासे शिशिरमुपचारं रचयति स्फुटोत्कण्ठे गाढं घटयति परीरम्भमसकृत् । निमग्रे मोहान्धौ स्वयमपि च मज्जत्यतिभृशं विलासैरप्यन्यैरनुसरति सा नञ्जनृपतिम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat ५१ www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy