SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम्। [क्लिास.४ 'विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः ।' यथा नवीननारीजनमीनकेतोर्नञ्जक्षितीन्द्रस्य रसज्ञमौले। यैः कैश्चिदप्याभरणैर्मनोज्ञा हतुं मनस्तद्यतते मृगाक्षी ॥ 'तात्कालिको विकारः स्याद्विलासो दयितेक्षणे ।' यथा कर्णाग्रलोलदुरुमौक्तिकवालिशोभा नीराजितानि नवकन्दलितस्मितानि । विनंसिनीविनहनानि विलासिनीनां नञ्जक्षितीन्द्रमुखचन्द्रविलोकनानि ॥ 'विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ।' यथा अमुष्मिन्नस्तोकप्रसमरविलासैकरसिके __ समायते नञ्जक्षितिपतिलके केलिसदनम् । स्तनौ मुक्तादाना गलमपि च दीप्यद्रशनया - करौ मञ्जीराभ्यां घटयति वधूटी झटिति सा॥ 'रोषाश्रुहर्षभीत्यादेः सङ्करः किलिकिञ्चितम् ।' यथा निर्मर्यादं रमयतिचिरं नञ्जभूपालचन्द्रे ____ मोहावेशस्तिमितहृदयं दष्टबिम्वाधरोष्टे । सामिक्रोधं दरपुलकितं साश्रु सोत्कम्पगात्रं पश्यन्ती तत्प्रणयविवशा यत्नशून्या तदाऽऽस्ते ॥ 'मोहायितं स्यादिष्टस्य कथादौ भावसूचनम् ।' यथा बहुतरसुकृतानां भागधेयैः कथञ्चि नयनसरणिलग्ने सादरं नञ्जभूपे । सचकितललिताक्षं सल्लपन्ती सहासं विशदयति मनीषामुत्तरङ्गैरपाङ्गैः॥ १ मन्तर OL Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy