________________
विलास. ४]
रसनिरूपणम् । 'सम्मर्देऽपि सुखाधिक्यं रतौ कुट्टमितं स्मृतम् ।' यथा
तत्ताहक्मणयप्रसञ्जितकलव्याहारमाध्वीरसा
नुत्कीलं श्रवणे किरत्यविरलं नञ्जावनीवल्लभे । सद्यः स्वैरनिगूढसौख्यलहरीसम्बाधसम्बोधिनी
मुद्रां कामपि सूचयत्यविरलैर्भावैः प्रियम्भावुकैः ॥ 'मनाक् प्रियकथालापे बिब्बोकोऽनादरक्रिया।' यथा
त्रैलोक्याद्भुतविक्रमस्य महतः श्रीनञ्जभूमीपतेः __ स्थित्वा बाहुपदे चिरं भवतु सा विस्रम्भिनी कुम्भिनी । सा भूयः परिरंभसम्भ्रमकथा किं मादृशा [मी] दृशां
__मास्तां तावदलीकविप्रियकथालोभेन किं भ्राम्यसि ॥ 'सुकुमारोऽङ्गविन्यासो ललितं परिकीर्त्यते।' यथा
चलवल्लीकं चपलचपलापाङ्गमधुरं
दरस्मेरोदारं दशनरुचिकिचल्करुचिरम् । कपोलव्यावलगत्कनकमयताटङ्कयुगलं
मृगाक्ष्यः पश्यन्ति स्मरमिव नवं नानृपतिम् ॥ 'कुतूहलं रम्यदृष्टौ चापलं परिकीर्त्यते ।' यथा
तत्ताहक्प्रतिपक्षपार्थिवधुरं निर्वाप्य दोर्विक्रमै
रथ्यामागतवत्यधिष्ठितगजे ननक्षमावल्लभे । सद्योदर्शनलालसा मृदुरणत्काञ्चीकलापा जवा
दारोहन्ति सुवर्णसौधवलभीशृङ्गाणि पौराङ्गनाः ।। 'चकितं भयसम्भ्रमः । यथा
रतिगृहमुपनीता स्नेहपूर्व सखीभिः चरणकमललग्नालोलहक्चश्चरीका ।
१रसा OL. २ रस OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com