SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलासः ४ मुहुरुपचितलज्जं स्विन्नगण्डस्थलीकं रचयति ललिताङ्गी कौतुकं नञ्जभर्तुः ।। 'विहृतं प्राप्तकालस्य वाक्यस्थाकथनं हिया।' यथा आलोक्य नञ्जक्षितिपालमौले साम्राज्यलक्ष्म्या परिरब्धमङ्गम् । उत्साहिता तेन हितोपचारै र्वाचं न काचिद्विशदीकरोति ॥ 'आकस्मिकंतु हसितं यौवनादिविकारजम् ।' यथा निशम्य ननक्षितिपालमौले निसर्गरम्यानमितान्विलासान् । सखीजनस्याननतः सलीलं हसत्यकाण्डे हरिणायताक्षी ॥ अथशृङ्गारस्याङ्कुरितत्वपल्लवितत्वकोरकितत्वकुसुमितत्वफलितत्वहेतवो बादशावस्था निरूप्यन्ते। 'चक्षुःप्रीतिर्मनस्सङ्गः सङ्कल्पोऽथ प्रलापिता। जागरः कार्यमरतिः लजात्यागोऽथ संज्वरः॥ उन्मादो मूर्छनश्चैव मरणं चरमं विदुः । अवस्था द्वादश मताः कामशास्त्रानुसारतः॥' केचिदशावस्था इति कथयन्ति । तासां स्वरूपमुदाहरणं च । 'आदरादर्शनं चक्षुप्रीतिरित्यभिधीयते।' यथा कर्णोत्पलस्थितिमनुक्षणमाक्षिपद्भिः कन्दर्पकोटिकलनापटुभिः कटाक्षः। कामं किरद्भिरभिलाषमिव स्वकीयं कर्षन्ति नानृपतेर्हृदयं मृगाक्ष्यः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy