SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ विलास..] एसनिरूपणम् । 'मनस्सङ्गः प्रियतमे नित्यं चित्तस्य विश्रमः ।' यथा आलापान्न शृणोति नैव यतते गातुं च जातु प्रियं नैव व्याकुरुते न नर्म सरसं पृष्टाऽपि नो भाषते । आलीभिः प्रतिबोधिताऽपि किमपि द्रष्टुं नचोत्कण्ठते सक्तं नञ्जनपे स्वयं प्रियतमे चित्तं तदस्याश्विरम् ॥ सङ्कल्पः कान्तविषयमनोरथ उदाहृतः।' यथा कदा मम मनः सुखं व्रजति मोहसिन्धोस्तटं कदा मम मनोरथः सफलतां लभेतेदृशः । कदा स विजयी भवेत्पुनरपि प्रसूनायुधः कदा नु रसिको भवेन्मयि स नञ्जभूवल्लभः ॥ 'प्रलापः प्रियसंश्लिष्टगुणालाप उदाहृतः ।' यथा चातुर्य तदनन्यलोकसुलभं सौन्दर्यमन्यादृशं सौहार्द हृदयैकवेद्यमथ च स्नेहक्रमस्तादृशः । रासिक्यं च रसज्ञमौलिमणिभिः श्लाघ्यं यदीयं स्वयं सोऽयं नानृपः प्रियो यदि पुनः प्राप्यं किमैन्द्रं सुखम् ॥ 'जागरस्तु विनिद्रत्वम् । यथा-- विष्वक्तापविधायिनं हिमरुचिं भूयः स्तुवाना भिया सनीभूतशराय पुष्पधनुषे शीर्षे वहन्त्यञ्जलिम् । गाढाहङ्कतये वसन्तहतकायावर्तयन्ती शुभा न्यायत्ता त्वयि नञ्जभूप लभते निद्रां न च द्रागियम् ॥ 'कार्यमङ्गस्य तानवम्' यथा मुग्धे त्वं कृशतामुपैषि किममीष्वङ्गेषु सर्वेष्वलं मत्तोऽप्यद्य मनोरथान्घटयितुं का वा तव प्रेयसी। ज्ञातं ते हृदयं निवेश्य तदिदं नञ्जक्षमावल्लभे त्वामप्यद्य करोमि तत्प्रियसखी साम्राज्यलक्ष्मीसमाम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy