SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ५६ नजराजयशोभूषणम्। [विलास. ४ 'अत्यन्ताप्रीतिररतिः यथा चन्द्रं निन्दति चन्दनं न सहते रम्यां जहाति स्रजं विस्रब्धाभिरपि प्रियाभिरुचितं नैवेच्छति क्रीडितुम् । क्रीडाकाननकुञ्जसीमनि तपोवृत्तिं समाश्रित्य सा नञ्जमाप तवाभिमुख्यविधुरा कान्ता भृशं ताम्यति ॥ लज्जात्यागो यथा कुप्यन्तु नाम गुरवोऽथ जहातु कान्तः - सर्वत्र तां च महिला गिरमुद्गिरन्तु । नजावनीन्द्र तयं मम वारणीयः तापस्तवाधरसुधारससेचनेन ॥ 'तापाधिक्यं ज्वरो मतः।' यथा आलोक्य नञ्जनृपतिं नरपालचन्द्रं कन्दर्पतापपरिवेपितगात्रवल्याः। शुष्यन्ति चन्दनरसाः स्तनयोर्विकीर्णाः शीयन्ति हारमणयः शतधा लताङ्गयाः ॥ उन्मादादिनां प्रागेवोदाहारणमुक्तम् । 'मूर्छा त्वभ्यन्तरे वृत्तिर्बाह्येन्द्रियनिमीलनात् ' यथा द्रष्टुं नञ्जमहीकान्तं हृदयस्थं मृगीदृशाम् । करणानि निमीलन्ति बाह्यानि मनसा सह ॥ अथ शृङ्गारः । स च द्विविधः सम्भोगो विप्रलम्भश्च । 'संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियुक्तयोः ।' इति शृङ्गारतिलके कथितम् । सम्भोगस्य परस्परालोकनसम्भाषणचुम्बनालिङ्गनाद्यनेकव्यापारमयत्वेनानन्त्यादेकविधत्वेन गणना कृता । यथा व्यक्ताव्यक्तपरस्परप्रियकथं प्रेमावशिष्टाशयं प्रान्तोन्मीलदपाङ्गसूचितरतिप्रागल्भ्यमस्तत्रपम् । आनन्दाधिगमादलब्धकरणव्यापारसौख्यं मया लब्धं भाग्यवशेन नाविभुना मुग्धे रहाक्रीडितम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy