________________
५६
नजराजयशोभूषणम्।
[विलास. ४ 'अत्यन्ताप्रीतिररतिः यथा
चन्द्रं निन्दति चन्दनं न सहते रम्यां जहाति स्रजं
विस्रब्धाभिरपि प्रियाभिरुचितं नैवेच्छति क्रीडितुम् । क्रीडाकाननकुञ्जसीमनि तपोवृत्तिं समाश्रित्य सा
नञ्जमाप तवाभिमुख्यविधुरा कान्ता भृशं ताम्यति ॥ लज्जात्यागो यथा
कुप्यन्तु नाम गुरवोऽथ जहातु कान्तः - सर्वत्र तां च महिला गिरमुद्गिरन्तु । नजावनीन्द्र तयं मम वारणीयः
तापस्तवाधरसुधारससेचनेन ॥ 'तापाधिक्यं ज्वरो मतः।' यथा
आलोक्य नञ्जनृपतिं नरपालचन्द्रं
कन्दर्पतापपरिवेपितगात्रवल्याः। शुष्यन्ति चन्दनरसाः स्तनयोर्विकीर्णाः
शीयन्ति हारमणयः शतधा लताङ्गयाः ॥
उन्मादादिनां प्रागेवोदाहारणमुक्तम् । 'मूर्छा त्वभ्यन्तरे वृत्तिर्बाह्येन्द्रियनिमीलनात् ' यथा
द्रष्टुं नञ्जमहीकान्तं हृदयस्थं मृगीदृशाम् ।
करणानि निमीलन्ति बाह्यानि मनसा सह ॥ अथ शृङ्गारः । स च द्विविधः सम्भोगो विप्रलम्भश्च । 'संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियुक्तयोः ।' इति शृङ्गारतिलके कथितम् ।
सम्भोगस्य परस्परालोकनसम्भाषणचुम्बनालिङ्गनाद्यनेकव्यापारमयत्वेनानन्त्यादेकविधत्वेन गणना कृता । यथा
व्यक्ताव्यक्तपरस्परप्रियकथं प्रेमावशिष्टाशयं
प्रान्तोन्मीलदपाङ्गसूचितरतिप्रागल्भ्यमस्तत्रपम् । आनन्दाधिगमादलब्धकरणव्यापारसौख्यं मया लब्धं भाग्यवशेन नाविभुना मुग्धे रहाक्रीडितम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com