SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ५७ विलास. ४] रसनिरूपणम् । विप्रलम्भः पुनरभिलाषाविरहप्रवासहेतुकत्वेन चतुर्विधः । अभिलाषो नाम सम्भोगतः प्रागनुरागः । यथा-- आकुश्चितेक्षणमपोढकुचाग्रचेलं मन्तर्निरुडपुनरुन्मुखमोहभावम् । नञ्जक्षितीन्द्रसविधे सुदती वसन्ती वीक्षाभिरेव विशदीकुरुतेऽभिलाषम् ॥ नायकस्यान्यासक्तभावाचित्तविक्रिया ईर्ष्या । तया विप्रलम्भो यथा आयातेऽपि यदा कदा नु दयिते नैवान्यदाशते क्रीडास्वप्यनुवर्तते च हृदयं गाढं विजित्य त्रपाम् । मामप्येवमुपेक्षते पुनरयं को वा विधेः प्रक्रमः का वा नाविभुं स्व [य] सुखयते जानाम्यहं तामपि ॥ विरहो नाम लब्धसंयोगयोः केनचित्कारणेन पुनःसमागमकालातिक्षेपः । यथा लीलाविलोकनपचेलिमचेष्टितानि निःसीमहर्षविवशीकृतजल्पितानि । क्रीडासु नानृपतिः पुनरत्रपानि तत्तादृशानि विहृतानि कदा करोतु ॥ यूनोर्देशान्तरवर्तित्वं प्रवासः, तेन विप्रलम्भो यथाआहारे न मतिर्न वा मृदुतरे तल्पेऽपि कालोचितेऽ प्यालापे न कुतूहलं न च सखीसम्भाषणेऽप्यादरः। आसक्तिन पुरोगतेष्वपि दृशोस्तस्याः परं वर्तते कान्ते दिग्विजयश्रिया चिरयति श्रीनञ्जभूवल्लभे ॥ इति परमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविविरचिते नाराज'यशोभूषणे अलङ्कारशास्त्रे रसनिरूपणं नाम चतुर्थो विलासः ॥ १ येच्छ OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy