SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नवराजयशोभूषणम् । [विलास.५ अथ पञ्चमो विलासः करुणारसकल्लोलकलितापाङ्गवीक्षणम् । कन्दर्पजनकं धाम कल्याणानि करोतु नः ॥ वचसां कल्प्यमानानां कैश्चित्सुकविमानिभिः । क्रमः (मात्?) प्रदयते क्षुद्रनायको दोषसङ्कुलः ॥ प्रबन्धवर्णनीयनञ्जराजेतरक्षुद्रनायकप्रतिपाद्यकुकविकल्पनीयकवितामार्गप्रदर्शनव्याजेन दोषा निरूप्यन्ते । 'दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचरः।' रसापकर्षापादकत्वं दोषत्वम् , तदुक्तम् __'मुख्यार्थहतिर्दोषो रसस्तु मुख्यस्तदाश्रयाद्वाच्य' इति । तेच शब्दार्थगतत्वेन द्विविधाः । शब्दगताश्च पदवाक्यगतत्वेन द्विविधाः। तत्र ताववाचकच्युतसंस्कृतपरुषसन्दिग्धासमर्थाश्लीलविरुद्धमतिकृदप्रयुक्तापुष्टार्थक्लिष्टनिरर्थकनेयार्थाप्रयोजकग्राम्यगूढार्थाविमृष्टविधेयकाप्रतीताख्याः सप्तदश पदगतदोषाः तदुक्तम्- . 'अप्रयुक्तमपुष्टार्थमसमर्थ निरर्थकम् । नेयार्थ च्युतसंस्कारं सन्दिग्धं चाप्रयोजकम् । क्लिष्टं गूढार्थकं ग्राम्यमन्यार्थ चाप्रतीतकम् ॥ अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा । अश्लीलं परुषं चेति दोषाः सप्तदश स्मृताः ॥' अन्यार्थकमवाचकमिति यावत् । तत्रावाचकच्युतसंस्कृते यथाद्वित्रैः पणैर्वत्सरवेतनेन प्रसाधिताः केचन संस्तुवन्ति । नाप्रभो त्वद्रिपुमङ्गराजं घटाब्धिकीर्ते विजयेति नित्यम् ॥ अत्र क्षीरवाचकत्वेन प्रयुक्तं घटपद[म]वाचकम् , विजयेत्यात्मनेपदस्य परस्मैपदत्वेन प्रयोगाच्युतसंस्कृतम्। 'शब्दशास्त्रविरुद्धं यत्पदं तड्युतसंस्कृत'मित्युक्तेः। 'परुषं नाम तयत्स्यादिहितं, परुषाक्षरैः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy