________________
५९
विलास. ५]
दोषगुणनिरूपणम्। सन्दिग्धं तन्मतं यत्स्यात्सन्दिग्धार्थप्रतीतिकृत् ।। उभयमपि यथा
नश्यतु तेऽभ्युद्भूता(?)नाविभुक्रोधतोऽद्य निषधेश ।
सेव्या न कदापि नृपैर्मानिभिरस्ये(न्ये?)दितानताशास्य ॥ अत्राभ्युद्भतेति परुषम् , दितं खण्डितं आनतानामाशास्यं येनेति वा अदितं अखण्डितं आनतानामाशास्यं येनेति वा सन्देहात्सन्दिग्धम् ।
'योगमात्रप्रयुक्तं यदसमर्थं तदुच्यते । अश्लीलं तदमाङ्गल्यजुगुप्सानीडकारणम् ॥'
अश्लीलं त्रिविधं जुगुप्साकरं ब्रीडाकरममङ्गलकरं चेति । उक्तोभयमपि यथा
मेदस्विन्नम्बुधरवद्रत्नस्तर्पय बान्धवान् ।
काण्डपृष्ठं करे कुर्वन्काम्भोजेश रिपून् जहि ॥ अत्र अम्बुधरवदिति समुद्रवाचकत्वेन प्रयुक्तं पदमसमर्थम्, मेदस्वि. निति जुगुप्साकरम् , तर्पयेत्यमङ्गलम्, काण्डेत्यादिपदं ब्रीडाकरम् ।
'विपरीतार्थधीर्यस्माविरुद्धमतिकृन्मतम् ।' यथा
तव नित्यं पूर्णकाम ध्वजोच्छ्रयणदर्शनात् ।
विवर्तितास्या धावन्ति भीरवो मालवाधिपम् ॥ अत्र सम्बुध्यन्ततया प्रयुक्तस्य पूर्णकामेति पदस्य उत्तरपदेन सह समस्तत्वेन प्रतीतिविरुद्धमतिकृत् ।।
'यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते ।
प्रकृतानुपयुक्तार्थमपुष्टार्थं तदुच्यते ॥ व्यमपि यथा
वनवर्तिन्पाण्ड्य पुरा न त्वया दैवतः स्मृतः ।
द्वादशार्धाधनयनो यः सकृत्स्मरतां निधिः ॥ अत्र देवतानि वा पुंसीति कोशोक्तमपि पुंस्त्वेन प्रयुक्तं कविभिरमयुक्तस्वादप्रयुक्तमिदं पदम् । त्रिलोचनेति विवक्षितेऽर्थे द्वादशार्धार्धेत्यादिविभागस्पानुपयोगादपुष्टार्थम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com