SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ५९ विलास. ५] दोषगुणनिरूपणम्। सन्दिग्धं तन्मतं यत्स्यात्सन्दिग्धार्थप्रतीतिकृत् ।। उभयमपि यथा नश्यतु तेऽभ्युद्भूता(?)नाविभुक्रोधतोऽद्य निषधेश । सेव्या न कदापि नृपैर्मानिभिरस्ये(न्ये?)दितानताशास्य ॥ अत्राभ्युद्भतेति परुषम् , दितं खण्डितं आनतानामाशास्यं येनेति वा अदितं अखण्डितं आनतानामाशास्यं येनेति वा सन्देहात्सन्दिग्धम् । 'योगमात्रप्रयुक्तं यदसमर्थं तदुच्यते । अश्लीलं तदमाङ्गल्यजुगुप्सानीडकारणम् ॥' अश्लीलं त्रिविधं जुगुप्साकरं ब्रीडाकरममङ्गलकरं चेति । उक्तोभयमपि यथा मेदस्विन्नम्बुधरवद्रत्नस्तर्पय बान्धवान् । काण्डपृष्ठं करे कुर्वन्काम्भोजेश रिपून् जहि ॥ अत्र अम्बुधरवदिति समुद्रवाचकत्वेन प्रयुक्तं पदमसमर्थम्, मेदस्वि. निति जुगुप्साकरम् , तर्पयेत्यमङ्गलम्, काण्डेत्यादिपदं ब्रीडाकरम् । 'विपरीतार्थधीर्यस्माविरुद्धमतिकृन्मतम् ।' यथा तव नित्यं पूर्णकाम ध्वजोच्छ्रयणदर्शनात् । विवर्तितास्या धावन्ति भीरवो मालवाधिपम् ॥ अत्र सम्बुध्यन्ततया प्रयुक्तस्य पूर्णकामेति पदस्य उत्तरपदेन सह समस्तत्वेन प्रतीतिविरुद्धमतिकृत् ।। 'यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते । प्रकृतानुपयुक्तार्थमपुष्टार्थं तदुच्यते ॥ व्यमपि यथा वनवर्तिन्पाण्ड्य पुरा न त्वया दैवतः स्मृतः । द्वादशार्धाधनयनो यः सकृत्स्मरतां निधिः ॥ अत्र देवतानि वा पुंसीति कोशोक्तमपि पुंस्त्वेन प्रयुक्तं कविभिरमयुक्तस्वादप्रयुक्तमिदं पदम् । त्रिलोचनेति विवक्षितेऽर्थे द्वादशार्धार्धेत्यादिविभागस्पानुपयोगादपुष्टार्थम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy