SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ६० नजराजयशोभूषणम् । [विलास. ५ 'क्लिष्टं तदर्थावगतिरैदूरा यतो भवेत् । पादपूरणमात्रं यत्तनिरर्थकमुच्यते ॥' इयमपि यथा शक्रजारातिसोदर्यहयैरेव समं वने । ललाटे लाट ते वासो विधिना लिखितो ह वै ॥ अत्र शक्रजः-अर्जुनः, तदरातिः कर्णः, तत्सोदर्यो यमः, तस्य हयैर्महिषैरिति व्यवहिततयाऽर्थावगतेः क्लिष्टम् । ह वै इति पादपूरणार्थकं निरर्थकम् । 'स्वसङ्केतप्रसिद्धार्थ नेयार्थं परिकीर्त्यते । तदप्रयोजकं यत्स्यादविशेषविधायकम् ॥' द्वयमपि यथा व्यत्यस्तराजाध्वगता तव श्रीस्सिालेश्वर । रणरात्रिषु न न्द्रं वृणीते धवलाम्बरा ॥ अत्र व्यत्यस्तराजेतिपदेन जारोऽभिधीयत इति नेयार्थम् । धवलेति पदमविशेषविधायकत्वादप्रयोजकम् । 'पामरव्यवहारैकप्रसिद्ध ग्राम्यमुच्यते । प्रयुक्तमप्रयुक्तार्थे गूढार्थ परिकीर्त्यते ॥' द्वयमपि यथा हसने निम्नगल्लां तां वनितां शोणितालकाम् । ___उद्वहनिर्गतो देशात्कोङ्कणो मुक्तकङ्कणः ॥ अत्र शोणितपदमरुणवर्णत्वेनाप्रसिद्धं गूढार्थम् , गल्लेति ग्राम्यम् । 'अविमृष्टविधेयांशं गुणीभूतविधेयकम् ।' यथा नालं सहस्रनेत्रोऽपि वन्यवृत्त्यैव जीवतः । लम्पाकभूमिपालस्य दुर्विपाकं विलोकितुम् ॥ अत्र नेत्रसहस्रस्य विलोकनापर्याप्तत्वेन विधेयस्य गुणीभावाद्विसृष्टविविधेयांशता। १ दूराद्रा OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy