SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ C विलास. ५] दोषगुणनिरूपणम् । 'शास्त्रमात्र प्रसिद्धंयदप्रतीतं तदुच्यते।' यथा नञ्जराजभटच्छिन्नां नासां प्रच्छाद्य विद्रवन् । मानक्लेशान्वितोऽपि त्वं किं महीपाल जीवसि ॥ अत्र क्लेशपदमभिनिवेशपरत्वेन योगशास्त्रमात्र प्रसिद्धम् । यदा कैश्चिदाज्ञापदं लूनं करेणावृत्य विद्रवन् । चतुरोऽपि भवान्चोल लीयसे कापि कानने ॥ अत्र भ्रूप्रान्तबोधकमाज्ञापदं योगशास्त्रमात्रप्रसिद्धमप्रतीतमिति पदगता दोषाः। - __ अथ वाक्यदोषाः शब्दहीन-क्रमभ्रष्ट-पुनरुक्त-विसन्धिक-सम्बन्धवर्जित--यतिभ्रष्ट-विभिन्नलिङ्गवचनोपमा-प्रक्रमभङ्ग-व्याकीर्ण-वाक्यसङ्कीर्ण--वाक्यान्तरसङ्कीर्णअरीतिक-अधिकोपम-विसर्गलुप्त-न्यूनपद-अधिकपद-च्छन्दोभङ्ग-समाप्तपुनरात्त-अशरीर-अपूर्ण--पतत्प्रकर्ष-हीनोपम-अस्थानसमासाख्याश्चतुर्विंशतिर्वाक्यदोषाः। एषां स्वरूपमुदाहरणश्च-- 'शब्दशास्त्रहतं काव्यं शब्दहीनं तदुच्यते।' यथा वर्षन्त्यमी जलधरा वारि यदुर्वीधरेन्द्र निकटेषु । तदिदं स्मरयत्यस्मान्नञ्जप्रभुसैन्यकार्मुकविलासान् ॥ अत्र वारि वर्षन्तीतिपदव्यप्रयोगदोषावाक्यमेव दुष्टम्, प्रसिद्धकर्मस्थले न कर्मोपादाननियम इति शब्दशास्त्ररीतिः 'क्रमभ्रष्टं भवेदार्थशान्दो वा यत्र न क्रमः।' यथा विद्वद्भ्यो वाञ्छितानान्वितरत्यान्ध्रभूपतौ । कल्पद्रं कर्णमपि वा न कोऽपि परिसेवते ॥ अत्र कर्ण यदा कल्पद्रुमपि वेति कथनीयेऽपि व्युत्क्रमेणोक्तम्, कर्णापेक्षया कल्पद्रोरुत्कष्टत्वादर्थक्रमभङ्गः । १ दोषाविष्कारा OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy