SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ६२ नञ्जराजयशोभूषणम् । शब्दक्रमभङ्गः पौनरुक्यश्च यथा कृपाण कीर्ति सौन्दर्यैरिन्दुकन्दर्पवारिदान् । निन्दन् जगद्विजयते निषधेशो जगज्जयी ॥ कृपाणकीर्तिसौन्दर्यैर्वारिदेन्दुकन्दर्पानित्युचिते शब्दक्रमे तथा नोक्तम्, कृपाणादिभिरिन्दुकन्दर्पवारिदानिति यथायोग्यं समुदायदयान्वयेऽर्थान्वयसिद्धेर्नात्रार्थक्रमभङ्गः, अपितु शब्दप्रयोग एव । जगज्जयी जगद्विजयत इति पौनरुक्त्यम् । 'विसंहितो विरूपो वा यत्र सन्धिर्विसन्धिमत् । सम्बन्धवर्जितं तत्स्याद्यत्रेष्टेनान्वयो हतः ॥ यत्र स्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यते ।" त्रितयमपि यथा रवीन्द्वौदार्यभाग्भूया जय आचन्द्रतारकम् । रणरङ्गसमर्थो भवान् जयश्रीर्हि नर्तकी ॥ त्रितयमपि यथा अत्र रवीन्द्वौदार्येति विरूपरूपो विसन्धिः, जय आचन्द्रेति विसम्हितात्मा विसन्धिः, समर्थो भवानिति यतिभ्रंशः, जयश्रीरूपाया नर्तक्याः भवतो रणएव रङ्ग इति सम्बन्धोनोक्त इति सम्बन्धवर्जितम् । 'यत्रोपमा भवेद्भिन्नवचना भिन्नलिङ्गका । तद्भिन्नवचनं भिन्नलिङ्गं चाहुर्मनीषिणः ॥ प्रक्रान्तनियमत्यागे भग्नप्रक्रममुच्यते ।' [ विलास. ५ त्वद्भद्रपीठमिव राजति पूर्वशैल स्तस्मिन्भवानिव विभाति विभावरीशः । नेपाल भूमिप पशोभिरिव त्वदीयैचन्द्रातपेन धवलीभवति त्रिलोकी ॥ अत्र पूर्वार्धे वाक्यं भिन्नलिङ्गोपमम्, उत्तरार्धे तु भिन्नवचनकं तत् पूर्ववाक्ये प्रथमान्तत्वेनोपमानोपमेययोर्ग्रहणादुत्तरवाक्ये तृतीयान्तत्वेन ग्रहणाच्च प्रक्रमभङ्गः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy