________________
६२
नञ्जराजयशोभूषणम् ।
शब्दक्रमभङ्गः पौनरुक्यश्च यथा
कृपाण कीर्ति सौन्दर्यैरिन्दुकन्दर्पवारिदान् । निन्दन् जगद्विजयते निषधेशो जगज्जयी ॥
कृपाणकीर्तिसौन्दर्यैर्वारिदेन्दुकन्दर्पानित्युचिते शब्दक्रमे तथा नोक्तम्, कृपाणादिभिरिन्दुकन्दर्पवारिदानिति यथायोग्यं समुदायदयान्वयेऽर्थान्वयसिद्धेर्नात्रार्थक्रमभङ्गः, अपितु शब्दप्रयोग एव । जगज्जयी जगद्विजयत इति पौनरुक्त्यम् ।
'विसंहितो विरूपो वा यत्र सन्धिर्विसन्धिमत् । सम्बन्धवर्जितं तत्स्याद्यत्रेष्टेनान्वयो हतः ॥ यत्र स्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यते ।" त्रितयमपि यथा
रवीन्द्वौदार्यभाग्भूया जय आचन्द्रतारकम् । रणरङ्गसमर्थो भवान् जयश्रीर्हि नर्तकी ॥
त्रितयमपि यथा
अत्र रवीन्द्वौदार्येति विरूपरूपो विसन्धिः, जय आचन्द्रेति विसम्हितात्मा विसन्धिः, समर्थो भवानिति यतिभ्रंशः, जयश्रीरूपाया नर्तक्याः भवतो रणएव रङ्ग इति सम्बन्धोनोक्त इति सम्बन्धवर्जितम् ।
'यत्रोपमा भवेद्भिन्नवचना भिन्नलिङ्गका । तद्भिन्नवचनं भिन्नलिङ्गं चाहुर्मनीषिणः ॥ प्रक्रान्तनियमत्यागे भग्नप्रक्रममुच्यते ।'
[ विलास. ५
त्वद्भद्रपीठमिव राजति पूर्वशैल
स्तस्मिन्भवानिव विभाति विभावरीशः ।
नेपाल भूमिप पशोभिरिव त्वदीयैचन्द्रातपेन धवलीभवति त्रिलोकी ॥
अत्र पूर्वार्धे वाक्यं भिन्नलिङ्गोपमम्, उत्तरार्धे तु भिन्नवचनकं तत् पूर्ववाक्ये प्रथमान्तत्वेनोपमानोपमेययोर्ग्रहणादुत्तरवाक्ये तृतीयान्तत्वेन
ग्रहणाच्च प्रक्रमभङ्गः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com