SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ विलास. ५] दोषगुणनिरूपणम् । 'व्याकीर्ण तद्विभक्तीनां व्याकीर्णे तु मिथोऽन्वये । यथा यथा " यथा आकर्ष चापे प्रणतान् कचेषु क्षुद्रान् समारोपय मुञ्चबाणान् । इत्थं त्रिलिङ्गाधिप सैनिकानां कोलाहलः क्रामति दिङ्मुखानि ॥ अत्र क्षुद्रान्कचेष्वाकर्ष, चापे वाणान् समारोपय, प्रणतान्मुञ्चेति वक्तव्ये भिन्नभिन्नवाक्यपदानामन्योन्यसङ्कलनाद्वाक्यसङ्कीर्णम् । 'तद्वाक्यगर्भितं यत्स्यान्मध्ये वाक्यान्तरं भवेत् । ' - संस्मरन्वचसा कार्य मनसा मृदुलं वदन् । अरिष्वभिनयन्मैत्रीं मर्मज्ञो जहि तान्विभो ॥ अत्र मनसा स्मरन् वचसा वदन्निति सम्बन्धो व्याकीर्णः । वाक्यान्तरपदैः कीर्ण वाक्यसङ्कीर्णमुच्यते ।' ( यथा धैर्यचेदिदमस्य मूर्तिसुषुमा यद्यस्तु दूरे स्मरो मेरुर्मे नच रोचतेऽद्य जगतां भूयः प्रियम्भावुकम् । पश्यामुं सुमुखीति सस्मितगिरः सङ्घीभवन्ति स्त्रियो रथ्यामागतवत्यधिष्ठितगजे पाञ्चालपृथ्वीश्वरे ॥ ६३ अत्र - अस्य धैर्य चेन्मेरुर्मे न चेत्यनन्तरं मूर्तिसुषुमेत्यादिवाक्यस्य विशिष्टस्य सुवेदतया तथाकथनाद्वाक्यान्तरसङ्कीर्णम् । 'रसाननुगुणा रीतिर्यत्रारीतिकमुच्यते ।' दिवसमुखविभिन्नाम्भोजपत्रेक्षणाभि र्ध्व नदलिनि कुरुम्बभ्रान्तिभृत्कुन्तलाभिः । तरुणकनककुम्भोद्भासिवक्षोरुहाभि भज सुखमबलाभिधूर्जरात्यूर्जितश्रीः ॥ अत्रारभटीवृत्तिरपि प्रौढवर्णा गौडीरीतिश्चेत्येतच्छृङ्गाररसविरोधि । ध्वनदलिनिकुरुम्बेत्यत्र ध्वनदिति पदं विनाऽप्यौपम्यसिद्धेरधिकोपमा चेयम् । 'यत्रोपमानमधिकं न्यूनं वा स्याद्विशेषणैः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy