________________
नजराजयशोभूषणम् ।
[विलास. ५ ___ तत्राधिकोपमं पूर्व न्यूनोपममतः परम् ॥” इति लक्षणात् । यथावा
नेपालमहिपालस्य कृपाणो राजते रणे ।
मदालसानां भूपानां यशोराकेन्दुराहुवत् ॥ अत्र वीररसे कैशिकी वृत्तिरतिकोमलवर्णा वैदर्भीरीतिश्चात्यन्तविरुद्धे ।
'ओत्वलोपौ विसर्गस्यासकृल्लुप्तविसर्गकम् ।' यद्वा--
भूयोविसर्जनीयानां श्रवणौत्वविलोपनैः ।
बहाह(ह्वाह ?)तविसर्ग स्यादि(द)तिलुप्तविसर्गकम् ।। बहाह(हा हृ?)तविसर्गमित्युच्यते यथा
अस्त्रैः प्रमथितैरश्वैः कुन्तैः कृतः करिव्रजैः ।
कलिङ्गः कुरुते भूपो दिशो निबिडितान्तराः ॥ येन विना वाक्यमनुपपन्नं तदप्रयोगे न्यूनपदम, इदमेव वाक्यवर्जित मित्युच्यते । यथा-अत्रैव श्लोके करिव्रजैरपीत्यपिशब्दस्य समुच्चयबोधकस्यानुपादानात्न्यूनपदम् अधिकपदच्छन्दोभङ्गसमाप्तपुनरात्तादित्रितयमपि यथा
त्वत्प्रतापो विदर्भेन्द्र कुडमाकारकान्तिमान् ।
रञ्जयत्यखिलाः काष्ठाः (दिशः १) रक्तोत्पलसमद्युतिः ॥ अत्र कुरआ ?) कारपदमधिकम् , रञ्जयत्यखिला दिश इति छन्दोभङ्गः, समासस्य वाक्यस्य रक्तोत्पलेत्यादिना पुनरादानात्समाप्तपुनरात्तकम् ।
'यत्राधिकपदोक्तिः स्यात्तत्राधिकपदं मतम् । छन्दोभङ्गं वचो यत्र तद्भगच्छन्द उच्यते ॥
समाप्तपुनरादाने समाप्तपुनरात्तकम् ।' इति त्रयाणामपि लक्षणात् । 'क्रियापदेन रहितमशरीरं प्रकीर्त्यते । यथा
बाह्रीकाधिपकान्तानामुष्णबाष्पाम्बुनिर्झराः ।
विपिने पूरिता वालाः शाखिनश्शुष्कपल्लवान् ॥ + लुप्तविसर्गस्योदाहरणं निर्गलितम् .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com