SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास. ५ ___ तत्राधिकोपमं पूर्व न्यूनोपममतः परम् ॥” इति लक्षणात् । यथावा नेपालमहिपालस्य कृपाणो राजते रणे । मदालसानां भूपानां यशोराकेन्दुराहुवत् ॥ अत्र वीररसे कैशिकी वृत्तिरतिकोमलवर्णा वैदर्भीरीतिश्चात्यन्तविरुद्धे । 'ओत्वलोपौ विसर्गस्यासकृल्लुप्तविसर्गकम् ।' यद्वा-- भूयोविसर्जनीयानां श्रवणौत्वविलोपनैः । बहाह(ह्वाह ?)तविसर्ग स्यादि(द)तिलुप्तविसर्गकम् ।। बहाह(हा हृ?)तविसर्गमित्युच्यते यथा अस्त्रैः प्रमथितैरश्वैः कुन्तैः कृतः करिव्रजैः । कलिङ्गः कुरुते भूपो दिशो निबिडितान्तराः ॥ येन विना वाक्यमनुपपन्नं तदप्रयोगे न्यूनपदम, इदमेव वाक्यवर्जित मित्युच्यते । यथा-अत्रैव श्लोके करिव्रजैरपीत्यपिशब्दस्य समुच्चयबोधकस्यानुपादानात्न्यूनपदम् अधिकपदच्छन्दोभङ्गसमाप्तपुनरात्तादित्रितयमपि यथा त्वत्प्रतापो विदर्भेन्द्र कुडमाकारकान्तिमान् । रञ्जयत्यखिलाः काष्ठाः (दिशः १) रक्तोत्पलसमद्युतिः ॥ अत्र कुरआ ?) कारपदमधिकम् , रञ्जयत्यखिला दिश इति छन्दोभङ्गः, समासस्य वाक्यस्य रक्तोत्पलेत्यादिना पुनरादानात्समाप्तपुनरात्तकम् । 'यत्राधिकपदोक्तिः स्यात्तत्राधिकपदं मतम् । छन्दोभङ्गं वचो यत्र तद्भगच्छन्द उच्यते ॥ समाप्तपुनरादाने समाप्तपुनरात्तकम् ।' इति त्रयाणामपि लक्षणात् । 'क्रियापदेन रहितमशरीरं प्रकीर्त्यते । यथा बाह्रीकाधिपकान्तानामुष्णबाष्पाम्बुनिर्झराः । विपिने पूरिता वालाः शाखिनश्शुष्कपल्लवान् ॥ + लुप्तविसर्गस्योदाहरणं निर्गलितम् . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy