________________
विलास.५]
दोषगुणनिरूपणम् । अत्र क्रियापदाभावादशरीरम् । 'अपूर्ण तद्भवेद्यत्र न सम्पूर्णः क्रियान्वयः।" यथा
सम्पादिता ननु मयैव मदेभकोटि
र्नाल्पाध्वलड्डनचणाश्च हया मदीयाः । भीमभ्रमद्भुकुटिभिश्च भटैः परीतं
मामप्यहो न वृणुते स्म कुतो जयश्रीः ॥ अत्र-मदेभकोटिमन्तं तादृशाश्ववन्तं तादृग्भटयुक्तं मामपि जयश्रीन घृणुते स्म, इति विवक्षितस्सम्बन्धो न सम्पूर्णः ।
'पतत्कर्ष तत्माहुः प्रकर्षो यत्र विश्लथः ।' यथा
कस्मात्त्वमागतो देशाने मरटभूपते । मरटादुद्भटभटाद्धावदश्वाङ्गमद्गजात् ॥ अत्र प्रकृष्टविशेषणानां व्यत्यासेन कथनात्पतत्प्रकर्षः ।
हीनोपमं न्यूनोपमम् , तल्लक्षणं पूर्वोक्तम् , यथा
युष्मत्प्रतापा इव वैरिभूपा दावानलज्वालदुरापरूपाः ।
निराकृता नीरभृतेव राजन्सुवर्णबद्धत्सरुणाऽसिना ते ॥ अत्र नीरभृतः सुवर्णबद्धत्सरुखङ्गस्य च साम्यकथनान्यूनोपमा । ___ 'अपदस्थसमासं तत्समासो यत्र नोचितः ।'
यथा-अत्रैव पद्ये दावानलज्वालदुरापरूपा इति वैरिभूपविशेषणे अप. दस्थसमासः, अयं भीषयितरि प्रयोक्तव्यो न भीषणीयेषु । इत्येते दोषाश्चतुविंशतिः । तदुक्तम्
'शब्दहीनं क्रमभ्रष्टं विसन्धि पुनरुक्तिमत् । व्याकीण वाक्यसङ्कीर्णमपूर्ण वाक्यगर्भितम् ॥ विभिन्नलिङ्गवचने येच न्यूनाधिकोपमे । भग्नच्छन्दो यतिभ्रष्टमशरीरमरीतिकम् ॥ विसर्गलुप्तमस्थानसमासं वाच्यवर्जितम् । समाप्तपुनरात्तं च तथा सम्बन्धवर्जितम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com