SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ विलास.५] दोषगुणनिरूपणम् । अत्र क्रियापदाभावादशरीरम् । 'अपूर्ण तद्भवेद्यत्र न सम्पूर्णः क्रियान्वयः।" यथा सम्पादिता ननु मयैव मदेभकोटि र्नाल्पाध्वलड्डनचणाश्च हया मदीयाः । भीमभ्रमद्भुकुटिभिश्च भटैः परीतं मामप्यहो न वृणुते स्म कुतो जयश्रीः ॥ अत्र-मदेभकोटिमन्तं तादृशाश्ववन्तं तादृग्भटयुक्तं मामपि जयश्रीन घृणुते स्म, इति विवक्षितस्सम्बन्धो न सम्पूर्णः । 'पतत्कर्ष तत्माहुः प्रकर्षो यत्र विश्लथः ।' यथा कस्मात्त्वमागतो देशाने मरटभूपते । मरटादुद्भटभटाद्धावदश्वाङ्गमद्गजात् ॥ अत्र प्रकृष्टविशेषणानां व्यत्यासेन कथनात्पतत्प्रकर्षः । हीनोपमं न्यूनोपमम् , तल्लक्षणं पूर्वोक्तम् , यथा युष्मत्प्रतापा इव वैरिभूपा दावानलज्वालदुरापरूपाः । निराकृता नीरभृतेव राजन्सुवर्णबद्धत्सरुणाऽसिना ते ॥ अत्र नीरभृतः सुवर्णबद्धत्सरुखङ्गस्य च साम्यकथनान्यूनोपमा । ___ 'अपदस्थसमासं तत्समासो यत्र नोचितः ।' यथा-अत्रैव पद्ये दावानलज्वालदुरापरूपा इति वैरिभूपविशेषणे अप. दस्थसमासः, अयं भीषयितरि प्रयोक्तव्यो न भीषणीयेषु । इत्येते दोषाश्चतुविंशतिः । तदुक्तम् 'शब्दहीनं क्रमभ्रष्टं विसन्धि पुनरुक्तिमत् । व्याकीण वाक्यसङ्कीर्णमपूर्ण वाक्यगर्भितम् ॥ विभिन्नलिङ्गवचने येच न्यूनाधिकोपमे । भग्नच्छन्दो यतिभ्रष्टमशरीरमरीतिकम् ॥ विसर्गलुप्तमस्थानसमासं वाच्यवर्जितम् । समाप्तपुनरात्तं च तथा सम्बन्धवर्जितम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy