________________
६६
[विलांस. ५
नजराजयशोभूषणम् । पतत्प्रकर्षमधिकपदं प्रक्रमभङ्गवत् ।
चतुर्विंशतिरित्येते दोषा वाक्यसमाश्रिताः॥' अथार्थदोषाः
'अहेतुव्याहतग्राम्याश्लीलाः सहचरच्युतः । अक्रमानुचितापार्था न्यूनासिद्धोपमे दश ॥' 'हेतोर्विनाऽर्थकथनं हेतुशन्यं प्रचक्षते ।'
यथा
वेगावतीर्णतुरगो यवनाधिपाल:
कौक्षेयकं करगतं पुरतो निधाय । जानुद्वयेन धरणीमुपविश्य भूयः
शृङ्गाटके गगन एव दृशौ विधत्ते ॥ अत्र चन्द्रसेवनेच्छयेति हेतु!क्तः
'व्याहतं देशकालादिविरुद्धं परिकीर्त्यते।' यथा
दयमप्यत्र सौख्याय पौरस्त्यो मलयानिलः ।
वर्षानिशीथनिर्निद्रकमलं विमलं सरः॥ अत्र पौरस्त्यो मलयानिल इति देशविरोधः वर्षानिशीथेत्यादौ कालविरोधः।
'पामरच्छान्दसोक्तिर्यत्तद्राम्यं परिकीर्त्यते।' अत्र पामरोक्तिर्यथा
श्वा भवानिव तत्रासीत्समृगोऽहमिवाग्रतः। ___ कण्ठग्राहं गृहीतोऽभूदयं तेन ससत्वरम् ॥ छान्दसोक्तिर्यथा
कृपाणकृष्णमार्जारस्तव पाण्ड्य विरोधिनाम् ।
यशाक्षीरं पिबत्याशु त्रिजगद्भाण्डसंस्थितम् ॥ यथा वा
दिग्वधूटीदुकूलानि द्विषत्कीर्त्याहयानि हि । खण्ड्यन्ते पाण्ड्यसैन्यानां मण्डलाग्रा(ग्यो ?)प्रमूषकैः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com