SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ६६ [विलांस. ५ नजराजयशोभूषणम् । पतत्प्रकर्षमधिकपदं प्रक्रमभङ्गवत् । चतुर्विंशतिरित्येते दोषा वाक्यसमाश्रिताः॥' अथार्थदोषाः 'अहेतुव्याहतग्राम्याश्लीलाः सहचरच्युतः । अक्रमानुचितापार्था न्यूनासिद्धोपमे दश ॥' 'हेतोर्विनाऽर्थकथनं हेतुशन्यं प्रचक्षते ।' यथा वेगावतीर्णतुरगो यवनाधिपाल: कौक्षेयकं करगतं पुरतो निधाय । जानुद्वयेन धरणीमुपविश्य भूयः शृङ्गाटके गगन एव दृशौ विधत्ते ॥ अत्र चन्द्रसेवनेच्छयेति हेतु!क्तः 'व्याहतं देशकालादिविरुद्धं परिकीर्त्यते।' यथा दयमप्यत्र सौख्याय पौरस्त्यो मलयानिलः । वर्षानिशीथनिर्निद्रकमलं विमलं सरः॥ अत्र पौरस्त्यो मलयानिल इति देशविरोधः वर्षानिशीथेत्यादौ कालविरोधः। 'पामरच्छान्दसोक्तिर्यत्तद्राम्यं परिकीर्त्यते।' अत्र पामरोक्तिर्यथा श्वा भवानिव तत्रासीत्समृगोऽहमिवाग्रतः। ___ कण्ठग्राहं गृहीतोऽभूदयं तेन ससत्वरम् ॥ छान्दसोक्तिर्यथा कृपाणकृष्णमार्जारस्तव पाण्ड्य विरोधिनाम् । यशाक्षीरं पिबत्याशु त्रिजगद्भाण्डसंस्थितम् ॥ यथा वा दिग्वधूटीदुकूलानि द्विषत्कीर्त्याहयानि हि । खण्ड्यन्ते पाण्ड्यसैन्यानां मण्डलाग्रा(ग्यो ?)प्रमूषकैः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy