SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ विलास. ५] दोषगुणनिरूपणम्। यथा वा सन्धीकरणचातुर्ये स्वीयानां परवञ्चने । द्विपात्पुच्छेन रहितो जम्बुकः कोङ्कणेश्वरः॥ 'अश्लीलार्थस्य कथनमश्लीलं परिकीर्त्यते।' यथा सेनामुखे तीक्ष्णपातदण्डं पाण्ड्य विलोक्य ते । चमूरुमध्ये विपिने विलीयन्ते विरोधिनः ॥ 'हीनस्सहैवोत्कृष्टानां पातः(ठ: ?) सहचरच्युतः।' यथा सिम्हैमन्दरकन्दरो वृककुलैाधो रसालः पिकैः __ शृङ्गैः काननसैरिभा जलधिजो दन्तैश्चतुर्भिर्गजः। गन्धैर्गन्धविडालमुष्ककुहरं त्वं चापि काञ्चीपते निर्व्याजोपनतैनिकाममधुरैराश्रीयसे सद्गुणैः ॥ कथ्यते क्रमवाक्यार्थव्युत्क्रमोऽक्रमनामकः । यथा--'कस्मात्त्व'मित्यादि। [६५ प] यद्योग्यस्य कथनं तदेवानुचितं विदुः । यथाआकीर्णकुन्तलमुचितदैन्यमुद्यत्स्वेदं भयादगणितस्खलितोत्तरीयम् । चञ्जीपुरात्मतिदिशं चलिता लताङ्गीरन्वक चलन्ति यवना मदनानुविद्धाः॥ अत्र भीतासु स्त्रीषु पुंसां रिरंसाकथनमनुचितम् । समुदायार्थशून्यं यत्तदपार्थ प्रकीर्त्यते।' यथा काम्भोजः कलिकाम्भोजः कुन्तलः कीर्णकुन्तलः । गान्धारो गानचतुरः काञ्ची काञ्चीमुदं ददौ ॥ यथा वा कुशलं तव भूपाल कावेरी सह्यपर्वतात् । काककोकिलयोमैत्री मुसलं भक्षयत्यसौ ॥ अत्र न कोपि वाक्यार्थः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy