________________
विलास.४]
रसनिरूपणम् । किं भूयः कथनेन केवलरुषा मामप्यसावीक्षते
तत्ताहरप्रणयोऽद्य नञ्जनृपतिः सख्यः समानीयताम् ॥ यथा
कटाक्षोल्कापातैः कलयति सुधांशौ मलिनतां
समन्तादुद्यानं ग्लपयति च निश्वासमरुता । पुरस्तादालीनां चलनमपि सैषा न सहते
तदद्यानेतव्यः सखि सरभसं नानृपतिः॥ 'तत्त्वमार्गानुसन्धानादर्थनिर्धारणं मतिः।' यथा
यशश्चन्द्रज्योत्स्नाधवलितदिशो नञ्जनृपतेः
कलालेशश्रीकः स खलु सुमधन्वा रतिपतिः । यदेतैरेकैकप्रमुषितजगचक्रविभवै.
विलासैरेवासौ विवशयति विश्वं नवनवैः ॥ 'मनस्तापाद्यभिभवात् ज्वरार्व्यािधिरिष्यते ।' यथा
श्रीनञ्जभूमीदयितस्य नेतुर्विरोधिकान्ता विरहज्वरार्ताः ।
सखीजनं चापि समानतापं कुर्वन्ति निश्वासपरम्पराभिः ॥ 'उन्मादस्तुल्यवृत्तित्वं चेतनाचेतनेष्वपि ।'
यथा
जयश्रीप्रासादप्रतिभटभुजाग्रस्य महतः
समन्ताद्धावद्भिर्दिशि दिशि भटैनञ्जनृपतेः । निनादात्संन्त्रस्ता रिपुधरणिपालाः क्षितिरुहां
श्वलन्तः पृच्छन्ति स्फुटितहृदया वम पुरतः ॥ मरणं मरणार्थस्तु प्रयत्नः परिकीर्तितः । यथा
नञ्जक्षितीन्द्रस्य कृपाणधारा
स्वैरावलोढेष्वरिपार्थिवेषु । कान्तास्तदीयाः स्मरबाणतता मोक्तुं यतन्ते ननु जीवितानि ॥
१त्सन्तुद्धा CL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com