________________
बिलास. ४ ]
रसनिरूपणम् ।
'जाड्यमप्रतिपत्तिस्स्यादिष्टानिष्टागमोद्भवा । '
यथा
विभोर्वीरक्षोणी पतितनुभुवो नञ्जनृपतेर्ध्वजाग्रे जाग्रन्तं पवनसुतमत्यद्भुततनुम् । सकृन्निध्यायन्तः सकृदपिच नालं करधृतं धनुस्सज्जीकर्तु रणभुवि विपक्षक्षितिभुजः ॥ 'अन्यधिक्करणादात्मोत्कर्षो गर्यो बलादिजः ।'
यथा
आकर्णप्रतिकृष्य (ष्ट १)भू (भी ? ) षणधनुर्ज्याबन्धसन्धिक्षरलोल्लङिशरौघघट्टनविधिं शैलास्स हेरन्न मे । एतैः किं विमतैः पलालकणिकानिस्सारदोर्विक्रमैरित्युद्दण्डबला व्रजन्ति समरे नञ्जक्षमाभृद्भटाः ॥ 'विषादश्चेतसो भङ्ग उपायाभाव चिन्तनैः । '
यथा
पराभूतिं प्राप्ताः प्रथितयशसो नञ्जनृपतेः प्रतापव्यापारात्प्रलयसमयार्क प्रतिभटात् । अपीदं कार्पण्यं वयमनुभवामो घिगिह नः
प्रणामैः प्रागेव प्रतिघटनसन्धिर्न रचिता ॥ 'कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् ।"
यथा
वक्षोजावसकृद्विमृश्य रुचिरामाघ्राय गण्डस्थली
मास्वाद्यावर बिम्बमप्यनुपदं स्पृष्ट्वा च नीवीपदम् । कालक्षेपपरे च नर्मवचनैर्नञ्जक्षितीन्द्रे मना
गुन्मुक्ता त्रपया स्वयं शशिमुखी वेगादुपागूहते | 'आवेशो मोहदुःखाचैरपस्मारोऽङ्गतापकृत् ।"
यथा-
अवकर्ण्य नञ्जन्नृपतेर्वरूथिनी भटसिम्हनादमतिभैरवं रणे । परिपन्धिभूमिपतयः स्खलत्पदाः परितो भ्रमन्ति तरुषण्डमाकुलाः ॥
१ मनसो CL + अत्र क्रमप्राप्ता निद्रा नोदाहता.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
४७.
www.umaragyanbhandar.com