SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ बिलास. ४ ] रसनिरूपणम् । 'जाड्यमप्रतिपत्तिस्स्यादिष्टानिष्टागमोद्भवा । ' यथा विभोर्वीरक्षोणी पतितनुभुवो नञ्जनृपतेर्ध्वजाग्रे जाग्रन्तं पवनसुतमत्यद्भुततनुम् । सकृन्निध्यायन्तः सकृदपिच नालं करधृतं धनुस्सज्जीकर्तु रणभुवि विपक्षक्षितिभुजः ॥ 'अन्यधिक्करणादात्मोत्कर्षो गर्यो बलादिजः ।' यथा आकर्णप्रतिकृष्य (ष्ट १)भू (भी ? ) षणधनुर्ज्याबन्धसन्धिक्षरलोल्लङिशरौघघट्टनविधिं शैलास्स हेरन्न मे । एतैः किं विमतैः पलालकणिकानिस्सारदोर्विक्रमैरित्युद्दण्डबला व्रजन्ति समरे नञ्जक्षमाभृद्भटाः ॥ 'विषादश्चेतसो भङ्ग उपायाभाव चिन्तनैः । ' यथा पराभूतिं प्राप्ताः प्रथितयशसो नञ्जनृपतेः प्रतापव्यापारात्प्रलयसमयार्क प्रतिभटात् । अपीदं कार्पण्यं वयमनुभवामो घिगिह नः प्रणामैः प्रागेव प्रतिघटनसन्धिर्न रचिता ॥ 'कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् ।" यथा वक्षोजावसकृद्विमृश्य रुचिरामाघ्राय गण्डस्थली मास्वाद्यावर बिम्बमप्यनुपदं स्पृष्ट्वा च नीवीपदम् । कालक्षेपपरे च नर्मवचनैर्नञ्जक्षितीन्द्रे मना गुन्मुक्ता त्रपया स्वयं शशिमुखी वेगादुपागूहते | 'आवेशो मोहदुःखाचैरपस्मारोऽङ्गतापकृत् ।" यथा- अवकर्ण्य नञ्जन्नृपतेर्वरूथिनी भटसिम्हनादमतिभैरवं रणे । परिपन्धिभूमिपतयः स्खलत्पदाः परितो भ्रमन्ति तरुषण्डमाकुलाः ॥ १ मनसो CL + अत्र क्रमप्राप्ता निद्रा नोदाहता. Shree Sudharmaswami Gyanbhandar-Umara, Surat ४७. www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy