SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५६ नवराजयशोभूषणम् । [विलास. ४ तमेनं पश्यन्त्यास्तरुणपुलकालङ्कततनो मनागप्यन्यस्मिन्न चलति मनो मजुलदृशः॥ 'चेतस्सङ्कोचनं व्रीडानगरागस्तवादिभिः।' यथा पश्यन्ती चरणाङ्कितं संचकितं सव्रीडमन्दस्मितं सव्यानाञ्चलमर्पयन्त्यविरलं गाढस्तनाङ्करयोः । दृष्टा नचनृपेण सामि वलितग्रीवा नमद्भूलता शय्यागेहमुपागता शशिमुखी चित्ते विधत्ते मुदम् ॥ 'चापलं त्वनवस्थानं रागद्वेषादिसम्भवम्' यथा वारं वारं कुचकलशयोर्विक्षिपन्ती पदाग्रं ( कराग्रं ?) __ मन्दं मन्दं मदनकदनं याचमाना गन्तः । संपश्यन्ती सरससरसं सत्र सानुरागं काचित् कान्ता कलयति मुदं नञ्जभूपालकेन्दोः॥ 'प्रसक्तिरुत्सवादिभ्यो हर्षस्वेदादिभूमिकृत् ।' यथा मुग्धे त्वन्मुखपङ्कजेन सदृशं लब्धं फलं यत्तदा तसं चन्द्रकलापमूर्ध्नि सरस[:]प्रान्ते शशिच्छद्मना। सप्रेमातिशयं सविस्मयसुखं सोल्लासमन्दस्मितं पीतं येन रसज्ञमौलिमणिना श्रीनञ्जभूमीन्दुना ॥ 'इष्टानिष्टागमाजात आवेगश्चित्तविभ्रमः ।' यथा समायाते नञ्जक्षितिपतिलके केलिसदनं विदित्वा तद्वार्तामतिरभसमालीपरिजनैः । व्रजन्ती सोद्वेगं तदभिमुखमम्भोरुहमुखी परीरम्भं जृम्भत्कुचभरविमदं घटयति ॥ १ कुतुक OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy