________________
५६
नवराजयशोभूषणम् ।
[विलास. ४ तमेनं पश्यन्त्यास्तरुणपुलकालङ्कततनो
मनागप्यन्यस्मिन्न चलति मनो मजुलदृशः॥ 'चेतस्सङ्कोचनं व्रीडानगरागस्तवादिभिः।' यथा
पश्यन्ती चरणाङ्कितं संचकितं सव्रीडमन्दस्मितं
सव्यानाञ्चलमर्पयन्त्यविरलं गाढस्तनाङ्करयोः । दृष्टा नचनृपेण सामि वलितग्रीवा नमद्भूलता
शय्यागेहमुपागता शशिमुखी चित्ते विधत्ते मुदम् ॥
'चापलं त्वनवस्थानं रागद्वेषादिसम्भवम्' यथा
वारं वारं कुचकलशयोर्विक्षिपन्ती पदाग्रं ( कराग्रं ?) __ मन्दं मन्दं मदनकदनं याचमाना गन्तः । संपश्यन्ती सरससरसं सत्र सानुरागं
काचित् कान्ता कलयति मुदं नञ्जभूपालकेन्दोः॥ 'प्रसक्तिरुत्सवादिभ्यो हर्षस्वेदादिभूमिकृत् ।' यथा
मुग्धे त्वन्मुखपङ्कजेन सदृशं लब्धं फलं यत्तदा
तसं चन्द्रकलापमूर्ध्नि सरस[:]प्रान्ते शशिच्छद्मना। सप्रेमातिशयं सविस्मयसुखं सोल्लासमन्दस्मितं
पीतं येन रसज्ञमौलिमणिना श्रीनञ्जभूमीन्दुना ॥ 'इष्टानिष्टागमाजात आवेगश्चित्तविभ्रमः ।' यथा
समायाते नञ्जक्षितिपतिलके केलिसदनं
विदित्वा तद्वार्तामतिरभसमालीपरिजनैः । व्रजन्ती सोद्वेगं तदभिमुखमम्भोरुहमुखी परीरम्भं जृम्भत्कुचभरविमदं घटयति ॥
१ कुतुक OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com