SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ बिलासः ४] रसनिरूपणम् । आनीयतामिति(ह?)विलासकलारसज्ञः प्राणादपि प्रियतमः सखि नञ्जभूपः 'सत्वत्यागादनौडत्यं दैन्यं कार्पण्यसम्भवम् ।' यथा समप्यकं हस्ते लुलितलुलितं गण्डफलकं प्रकीर्णा बाप्पाम्भाप्रसरदुरुवीचीभिरभितः । विलीना मोहाब्धौ मनसिजशरावर्तगहने त्वयि स्वायत्ताशा निवसति परं नानृपतिम् (ते?) ॥ 'इष्टानभिगमात् ध्यानं चिन्ताशून्यत्वतापकृत् ।' यथाव्यत्यस्तहारमतिविश्लथकेशबन्ध मालीजनेऽप्यविशदीकृतनर्मभावम् । नाक्षितीन्द्र भवदागमनैकदृष्टि वृष्टिं समर्प्य पद्योरधिसौधमास्ते ॥ 'मोहस्तु मूर्छनं भीतिदुःखावेशादिचिन्तनैः ।' यथा निमिषमसहमाना सामि विश्लेषखेदं क्षणमपि कलयन्ती कल्पवदीर्घदीर्घम् । स्मरशरदलिताङ्गी सा चिरं नञ्जभूप त्वयि नियमितचित्ता वर्तते चञ्चलाक्षी ॥ 'पूर्वानुभूतविषयज्ञानं स्मृतिरुदाहृतम् ।' यथाविलाससर्वस्वमुदासयन्तं मनाग्विलासैमकरध्वजस्य । चिराय नञ्जक्षितिपं स्मरन्त्यो नक्तन्दिवं चापि नयन्ति नार्यः ॥ 'धृतिश्चित्तस्य नैःस्पृह्यं ज्ञानाभीष्टागमादिभिः ।' यथा सलीलं रथ्यायां व्रजति कुतुकान्नञ्जनपतौ स्वलावण्यस्यन्दप्रमुषितमनोजातयशसि । १ मति OL. २ मनसि OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy