SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ [विलास.... नजराजयशोभूषणम् । 'अनिष्टाभ्यागमापेक्षा शङ्का रोषादिकारणम् ।' यथा अयि मनसि ममैव प्रायशः प्राणनाथः सखि परिचित एव प्रत्यहं नजराजः। नयनसरणिलग्ने सा कथं स्यां निरोडं पुलकितकुचकुम्भोद्भिन्नकूर्पाससन्धिः॥ 'परोत्कर्षासहिष्णुत्वमसूया परिकीय॑ते ।' यथा समुदहति मेदिनीं यदयमन्वहं नन्वv निजे भुजपदे मुघा किमपि भागधेयं भुवः । किमेतदपि कौशलं दिवि च कामकेलीविधी मनो मदयितुं मनागपि च नञ्जभूमीपतेः ॥ 'मदिरादिकृतो मोहहर्षव्यतिकरो मदः।' यथा आस्वाद्य नानृपतेरधरामृतानि केलीषु पुष्पधनुषः कमलायताक्षी। आनन्दसारजलघावभितो निमग्ना साहित्यमेति नितरां स्तिमितान्यभावा ॥ श्रमः खेदोऽध्वरत्यादेर्जातः स्वेदातिभूमिकृत् यथा लिग्धं नूतनहंसतूलशयनं निर्माय तत्रादरा दाहूय प्रणयेन नानृपतिं प्रेमोत्किरन्तं दृशा। उत्कम्पस्तनमस्फुटप्रियकथं विस्रस्तवेद्यान्तरं काचिन्मानसिकी रतिं वितनुते कौतूहलप्रेयसी ।। 'मन्दोद्यमत्वमालस्यं कर्तव्येषु प्रकीर्त्यते' हारिद्रकेण किमु रञ्जयसि त्वमङ्गं लाक्षारसैश्च पदयोरघुना नवीनैः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy