________________
४
बिलास. ४]
रसनिरूपणम्। आसन्नरिनुपास्तैलशरावमलिनाननाः ।। 'रागद्वेषभयादिभ्यः कम्पो गात्रस्य वेपथुः।' यथा
प्रमृश्य चिकुरस्थली समधिरोप्य चाकं निजं
कथञ्चिदपि कञ्जुलीमपि विमोचयित्वा शनैः । करेण कुचकुमले स्पृशति नञ्जभूवल्लभे
सकम्पमलिकुन्तला विवलिताक्षमुद्रीक्षते ॥ 'अश्रु नेत्रोद्भवं वारि दुःखरोषप्रहर्षजम् ।' यथा
आलोकिता कललनञ्जनृपालमौलेराविष्कृतप्रणयपल्लवितैरपाङ्गैः।
जाता विनिर्भरसुखाश्रुकणावकीर्ना प्रेमोर्मिभिः प्रसृमरैर्बहिरावृतेव ॥ मतं गद्गदभाषित्वं वैस्वयं प्रमदादिजम् । यथा
निरुपधिरसभाजा नञ्जराजेन काचिद्विघटितदृढनीवीसम्पुटन्यस्तहस्ता।
प्रणमति विनताङ्गी सनपं तत्पदाब्जं किमपि किमपि सामिस्पष्टमाभाषमाणा ।
अथ व्यभिचारिभावानां स्वरूपमुदाहरणं च 'दुःखेातत्त्वबोधादेनिर्वेदो निष्फलत्वधीः।'
तत्र चिन्ताश्रुनिश्वासदीनताः सम्भवन्ति च ॥ यथा
आस्तां कुङ्कुमरागैरतिशिशिरैरालि चन्दनालेपैः ।
आनय नन्चनरेन्द्रं भूयः प्रेम्णाऽतिशीतलस्वान्तम् ॥ 'ग्लानिर्बलस्यापचयो वैवयं रतिकारणम् । यथा
बिभर्ति वसुधां कृत्स्ना लीलया नञ्जभूपतिः । वहन्ती च कुचाग्रे तं क्लान्ताऽसि ललिताङ्गि किम् ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com