SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ४ बिलास. ४] रसनिरूपणम्। आसन्नरिनुपास्तैलशरावमलिनाननाः ।। 'रागद्वेषभयादिभ्यः कम्पो गात्रस्य वेपथुः।' यथा प्रमृश्य चिकुरस्थली समधिरोप्य चाकं निजं कथञ्चिदपि कञ्जुलीमपि विमोचयित्वा शनैः । करेण कुचकुमले स्पृशति नञ्जभूवल्लभे सकम्पमलिकुन्तला विवलिताक्षमुद्रीक्षते ॥ 'अश्रु नेत्रोद्भवं वारि दुःखरोषप्रहर्षजम् ।' यथा आलोकिता कललनञ्जनृपालमौलेराविष्कृतप्रणयपल्लवितैरपाङ्गैः। जाता विनिर्भरसुखाश्रुकणावकीर्ना प्रेमोर्मिभिः प्रसृमरैर्बहिरावृतेव ॥ मतं गद्गदभाषित्वं वैस्वयं प्रमदादिजम् । यथा निरुपधिरसभाजा नञ्जराजेन काचिद्विघटितदृढनीवीसम्पुटन्यस्तहस्ता। प्रणमति विनताङ्गी सनपं तत्पदाब्जं किमपि किमपि सामिस्पष्टमाभाषमाणा । अथ व्यभिचारिभावानां स्वरूपमुदाहरणं च 'दुःखेातत्त्वबोधादेनिर्वेदो निष्फलत्वधीः।' तत्र चिन्ताश्रुनिश्वासदीनताः सम्भवन्ति च ॥ यथा आस्तां कुङ्कुमरागैरतिशिशिरैरालि चन्दनालेपैः । आनय नन्चनरेन्द्रं भूयः प्रेम्णाऽतिशीतलस्वान्तम् ॥ 'ग्लानिर्बलस्यापचयो वैवयं रतिकारणम् । यथा बिभर्ति वसुधां कृत्स्ना लीलया नञ्जभूपतिः । वहन्ती च कुचाग्रे तं क्लान्ताऽसि ललिताङ्गि किम् ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy