SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ४२ नञ्जराजयशोभूषणम् । कुचावप्येतस्याः करिकलभकुम्भौ लघयतस्तदेतत्पुण्यानां किमपि हि फलं नञ्जनृपतेः ॥ अनुभावो यथा सलज्जं सौत्सुक्यं प्रणयमधुरं प्रेमललितं सवैलक्ष्योदारं स्मितविकसिताकेकरमपि । सहर्षं पश्यन्ती स्मरमिव नवं नञ्जन्नृपतिं रतेर्लीलालक्ष्मीं भजति सुमुखी कामपि नवाम् ॥ अथ सात्विकभावानां स्वरूपमुदाहरणं च " 'स्तम्भः स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसम्भवम् ' यथा जेतुर्न महीजानेः श्रुत्वा भेरीरवं रणे । भवन्ति प्रतिभूपालाः पर्वता इव निश्चलाः ॥ प्रलयः सुखदुःखादेर्गाढमिन्द्रियमूर्च्छनम् ।' C यथा निर्मर्याद्विलासबै भवर सस्यन्दैर्नवैर्विभ्रमैः राकारेण च कोमलेन जगतामानन्दसन्दायिनम् । दृष्ट्वा नञ्जनरेन्द्रमिन्दुशिशिरं साहित्यसारस्पृशां स्वैरं मूर्छति विस्मयेन सुदृशां सर्वेन्द्रियाणां ततिः ॥ 'वपुर्जलोद्गमः स्वेदो रतिघर्मश्रमादिजः । ' यथा नृत्यद्वारविलासिनीपदयुगप्राञ्चन्मणीनूपुरव्यामिश्रध्वनिभिर्मनोभवघनष्टङ्गारशङ्कावहैः । आस्थानीं समुपेयुषां रसविदां श्रीनञ्जराजप्रभोः स्वेदाम्भःकणिकाः परं विदधिरे गात्राणि सर्वाण्यपि ॥ 'विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ।' यथा आकर्ण्य नञ्जभूभर्तुर्हरिदन्तजयोत्सवम् । + मत्र क्रमप्राप्तो रोमाञ्चो नोदाहृतः. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ विलास. ४ www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy