SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ बिलास.४] रसनिरूपणम्। रौद्रदर्शनादिभिरनाशङ्कनं भयम् यथाश्रीनञ्जमापमौले वनविजयिनः स्वैरदिग्जैत्रयात्रा प्रारम्भोज्जृम्भमाणध्वजपटजनितस्फारझञ्झासमीरैः । प्रोक्षिप्ताः क्षुद्रभूपाः क्षितिधरकुहराभ्यन्तराण्यभ्युपेताः स्फायद्भूजा(र्जा ?)ग्रजाग्रत्कतिपयपवनात्तत्र बिभ्यत्यवेलम् ॥ अर्थानां दोषसंदर्शनादिभिः गर्हणा जुगुप्सा, यथानिर्भिण्णस्कन्दमन्दप्रवहदुरुवसास्वादमाद्यपिशाच स्पर्धालुप्रेतभूतप्रकटकिलिकिलाध्वानधावत्सृगालम् । कङ्कालग्रासपुडीभवदमितबलोहप्तवेतालसङ्घ रङ्गं सङ्कामभूमेर्विवशयति सुरान्वीरनञ्जक्षितीन्दोः ॥ अपूर्ववस्तुसन्दर्शनात् चित्तविस्तारो विस्मयः, यथाकिं वाऽसौ मदनस्सचेदिह( दृदि ?) वसेदत्रापि पौष्पं धनुः किं वा पूर्णशशी सचेत्कथमसौ सञ्चारलीला भुवि । अन्येषामियमीदृशी कनु भवेल्लावण्यलक्ष्मीरिति स्वैरं नञ्जनृपं विलोलमनसः पश्यन्ति वामभ्रवः ॥ शमो वैराग्यादिना निर्विकारचित्तत्त्वम् , यथा जेतुर्नजनृपालमण्डनमणेरत्युद्धतैः सैनिकैः __ सङ्कामेषु विपक्षभूमिपतयो विद्राविता निर्भयम् । स्थातुं शैलवनस्थलीष्वपि मरुद्धृत्या मनागक्षमा हित्वा वैषयिकी कथामपि तपस्थेमानमाबिभ्रति ।। अथ शृङ्गारस्यालम्बनविभावो यथा शरज्योत्लासारैः सुरभिलमधूलीपरिचितैः प्रतीकैः साकारैः सरसिजभुवाऽसौ विरचिता । जयत्येषा योषा जनितजगदानन्दलहरी प्रियश्चास्याः सोऽयं नवसुमशरो नानृपतिः । उद्दीपनविभावो यथा नवं राकाचन्द्र परिहसति मुग्धं मुखमिदं विलासश्चाप्यक्ष्णोः विकलयति लक्ष्मी जलरुहाम् । .. .. । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy