SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास. ४ स्वैरं वपुः पुलकितं युगपत्तदाऽऽसीत् ॥ अत्र वीरशृङ्गारजनितयोर्हषयोस्सन्धिः अथ यथाक्रमं स्थायिभावानां स्वरूपमुदाहरणं च कथ्यते । तत्र सम्भोगविषयकेच्छाविषयो रतिः शृङ्गारस्य रसस्य जीवितरसः सारस्यविज्ञानभूः भावानां विपणिर्विलाससदनं शिक्षागुरुर्नर्मणाम् । कान्तेः केलिपदं कलाभिरभितः सम्भावनीयः सदा ___ स्वामी नञ्जपः प्रियो मम भवेद्भाग्यं किमस्मात्परम् ॥ विकृतदर्शनादिजन्यो मनोविकारो हासः यथा नञ्जमापवरूथिनीपरिवृढप्रोडूतभीमध्वनरेरीभा तितर्जिता निशि रणे खाना (योधा ?) जवादाजिनः । आरुह्यादु(ति?)दरेण मूढमनसः पुच्छाग्रजाग्रन्मुखाः खङ्गैरश्लथवर्ममिः सरभसं छिन्दन्ति तद्रीविकाः ॥ इष्टजनवियोगादिनाऽऽत्मनि दुःखोद्भवः शोकः यथा नञ्जक्षितीन्द्रकरसम्भृतखड्गवह्नि ज्वालावलीढवपुषामरिभूपतीनाम् ।। कान्ताः पदाग्रविलुठद्धनकेशबन्धा __ वक्षस्थलीः करतलैरभिताडयन्ति ॥ परकृतापराधेन मनःप्रज्वलनं क्रोधः यथा शैलाभ्यन्तरकन्दरेष्वनुमतामुल्य वृत्ति निजा मुद्रीवोन्नमिताननान्मतिदिशं सोत्कण्ठमुत्पश्यतः। जानानाः प्रतिपार्थिवांस्थपुटितभ्रूभङ्गभीमेक्षणा नञ्जक्ष्मापभटाः सहुतिरवं क्रुध्यन्ति युद्धोन्मुखाः ॥ .. लोकोत्तरेषु कार्येषु स्थेयान्प्रयत्न उत्साहः, यथा बधीमः शरसेतुभिः प्रतित सर्वा च सप्तार्णवी मुदृप्तस्फुटिताहासनिनदैरापूरयामो दिशः। चन्द्राविपि निर्विशेषमहसा संस्तम्भयामः क्षणादेवं नाविभेर्भवन्ति परितः सैन्येषु वादा मिथः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy