SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ विलास. ४ ] व्यभिचारिभावानामुदयो यथा - आहूता दयितेन नञ्जविभुना सभ्रूविलासस्मितं सानन्दं कतिचित्पदान्यभिमुखं यान्ती शनैरन्तिकम् । दृष्टां प्राक्तरले तनुप्रतिकृतिं पुंभावकेलीविधौ स्मृत्वा स्वैरविनम्रवक्त्रकमला तन्वी क्षणं लज्जते ॥ अत्र लज्जाया उदयः । भावोपशमो यथा स्वच्छन्दं किरतु द्रुतं सितरुचिः स्निग्धां मयूखच्छ्टामुद्दतोऽपि बिभर्तु नाम मदनः सज्जं धनुः सर्वदा । स्वैरं केचन सञ्चरन्तु मरुतः सौरभ्य सारस्पृशो नेता ननृपस्तवेति गदिता हृष्टा तदाऽऽसीद्वधूः ॥ अत्र भयस्योपशमः । भावशबलता यथा— रसनिरूपणम् । चन्द्रोऽयं समुदेति चन्द्रवदनः कस्मादितो नागतो नवेन्द्रः किमनेन यं वसुमती स्वैरं विधत्ते वशम् । तस्यैवाघरमाधुरी ननु कथं नाभ्यर्थनीया मया धिक्चापल्यमिदं प्रियं त्वरयितुं किं प्रेषयिष्ये सखीम् ॥ अत्रामर्षोत्सुक्ययोर्विरुद्धयोरन्योन्योपमर्द फलत्वाच्छबलता भावसन्धिर्यथा शरौघैः सङ्ग्रामे भुवनजयिनो नञ्जनृपतेः परिक्षुब्धे सैन्ये भवति च रिपूणां बलवताम् । भटानामानन्दप्रभवजनितैरदृहसितै योद्भेदः शोको युगपदुदभूवैरिसुदृशाम् ॥ अत्र भयशोकादीनां समावेशात् [ सन्धिः ] अत्र ( पुन: ? ) भावसन्धिर्यथा सौघाग्रखेलदवरोधकटाक्षपातै निस्सीममागधकृतैश्च भुजापेदानैः । आस्थानवेदिमधिरोहति नञ्जभूपे १ बघानैः OL. Shree Sudharmaswami Gyanbhandar-Umara, Surat ३.९ www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy