SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ૨૮ नञ्जराजयशोभूषणम् । " अथानुभावः । 'कार्यभूतोऽनुभावः स्यात्कटाक्षादिः शरीरज: । ' परगतसुखदुःखानुभावनया भावितान्तःकरणत्वं सत्त्वम् । ततो भवाः सात्त्विकाः । 'स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवर्ण्यवेपथू । अश्रु वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्त्तिताः ॥ ' अथ व्यभिचारिभावाः । 'निर्वेद्ग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एव च ॥ सुप्तिर्विबोधोऽमर्षश्चाप्यवहित्था मदोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ वासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । यस्त्रिंशदमी भावा रसस्य सहकारिणः ॥' तथा चोक्तं काव्यप्रकाशे [ विलास. ४. • Shree Sudharmaswami Gyanbhandar-Umara, Surat 'कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ विभावाश्वानुभावाश्च कथ्यन्ते व्यभिचारिणः ।' इति । लोके कार्यकारणसहकारिशब्दवाच्या नायिकानायक कटाक्ष भुजाक्षेपनिर्देदादयः, काव्यनाट्ययोस्तु विभावानुभावव्यभिचारिशब्दव्यपदेश्या भवन्ति । शृङ्गारवीररौद्राद्भुतानां लोकोत्तरनायकाश्रयत्वेन परिपोषातिशयः । अत एव शृङ्गारस्य म्लेच्छादिविषयत्वेनाभासत्त्वम् । तथा चोक्तम्'एकत्रैवानुरागश्चेत्तिर्यङ्ग्लेच्छगतोऽपि वा । योषितो बहुसक्तिचेद्रसाभासस्त्रिधा मतः ॥' इति । व्यभिचारिभावानामुदयेन प्रशाम्यदवस्थया परस्परविरुद्धरसाश्रितयो - र्भावयोः स्पर्द्धया सम्बन्धे नान्योन्योपमर्दकतया बहूनां समावेशेन च चातुविंध्यम् । तथा चोक्तं दशरूपके "भावस्य शान्तिरुदयः सन्धिः शबलता तथे 'ति । www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy