________________
सिलास-४]
रसनिरूपणम् अथ चतुर्थो विलासः करुणारसकल्लोलललितापाङ्गवीक्षणम् ।
कन्दर्पजनकं घाम कल्याणानि करोतु नः ॥ अथ संलक्ष्यक्रमव्यङ्गयरसस्य स्वरूपं निरूप्यते ।
'विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः ।
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥' भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया यावदनुभवमवस्थानम् । तदुक्तं दशरूपके
'सजातीयविजातीयैरतिरस्कृतमूर्तिमान् ।
यावद्रसं वर्तमानः स्थायी भाव उदाहृतः॥' अथ रसविशेषाः।
'शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः।
बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥' एषां स्थायीभावाः।
'रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः॥' अथ विभावः।
'विभावः कथ्यते तत्र रसोत्पादनकारणम् ।
आलम्बनोद्दीपनात्मा स द्विधा परिकीर्तितः ॥' रससमवायिकारणमालम्बनविभावः । इतरत्कारणमुद्दीपनविभावः । चतुर्विधः । तदुक्तं शृङ्गारतिलके
'आलम्बनगुणश्चैव तच्चेष्टा तदलङ्कतिः । तटस्थाश्चेति विज्ञेयाश्चतुर्थोद्दीपनक्रमाः ॥ आलम्बनगुणो रूपयौवनादिरुदाहृतः। तचेष्टा यौवनोबूतहावभावादिका मताः॥ नूपुराङ्गदहारादि तदलङ्करणं मतम् । मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com