SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सिलास-४] रसनिरूपणम् अथ चतुर्थो विलासः करुणारसकल्लोलललितापाङ्गवीक्षणम् । कन्दर्पजनकं घाम कल्याणानि करोतु नः ॥ अथ संलक्ष्यक्रमव्यङ्गयरसस्य स्वरूपं निरूप्यते । 'विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥' भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया यावदनुभवमवस्थानम् । तदुक्तं दशरूपके 'सजातीयविजातीयैरतिरस्कृतमूर्तिमान् । यावद्रसं वर्तमानः स्थायी भाव उदाहृतः॥' अथ रसविशेषाः। 'शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः। बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥' एषां स्थायीभावाः। 'रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः॥' अथ विभावः। 'विभावः कथ्यते तत्र रसोत्पादनकारणम् । आलम्बनोद्दीपनात्मा स द्विधा परिकीर्तितः ॥' रससमवायिकारणमालम्बनविभावः । इतरत्कारणमुद्दीपनविभावः । चतुर्विधः । तदुक्तं शृङ्गारतिलके 'आलम्बनगुणश्चैव तच्चेष्टा तदलङ्कतिः । तटस्थाश्चेति विज्ञेयाश्चतुर्थोद्दीपनक्रमाः ॥ आलम्बनगुणो रूपयौवनादिरुदाहृतः। तचेष्टा यौवनोबूतहावभावादिका मताः॥ नूपुराङ्गदहारादि तदलङ्करणं मतम् । मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy