SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [ बिलास. तत्रिविधम्-गद्यमयं पद्यमयमुभयमयं चेति। 'अपादः पदसङ्घातो गद्यं पद्यं चतुष्पदी'। गद्यं काव्यं कादम्बर्यादि । पद्यं काव्यं रघुवंशादि । ___"असर्गबन्धमपि तदुपकाव्यमितीर्यते ।" असर्गबन्धं सूर्यशतकादि। "गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते । वक्र चापरवकं च सोच्छासत्वं च भेदकम् ॥ वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता ॥" यत्र वनापरवानामानौ वृत्तविशेषौ वयेते सोच्छासपरिच्छिन्नाऽऽख्यायिका हर्षचरितादि । अथ क्षुद्राः प्रबन्धा निरूप्यन्ते । 'युक्तं केनापि तालेन गद्यपद्यसमन्वितम् । जयेत्युपक्रमं मालिन्यादिप्रासविचित्रितम् ।। संबोधनविभक्त्या यत्प्रचुरं पद्यपूर्वकम् । विमुक्तपुनराकृष्टशब्दं स्याचक्रवालकम् ॥ आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका । अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ॥ प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता । सर्वतो देवशब्दादिरेषा भोगावली मता ॥ वर्ण्यमानाङ्कबिरुवर्णनप्रचुरोज्वला । वाक्याडम्बरसंयुक्ता सा मता बिरुदावली ॥ ताराणां सङ्ख्यया पद्यैर्युक्ता तारावली मता।' एवं कविप्रौढोक्तिसिद्धाः क्षुद्राः प्रबन्धाः यथासम्भवमूह्याः । तेषामुदाहरणानि विस्तरभयादिह नोक्तानि । इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे ध्वनिनिरूपणं नाम तृतीयो विलासः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy