SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ बिलास.३ ध्वनिनिरूपणम्। समप्राधान्यं यथा दृतावनीपानवमानयन्तो नञ्जक्षितीन्द्रस्य भुजप्रतापाः । माद्यन्ति चेत् केचन मन्दभाग्या स्तदा स्वलीलां तरसा वहेयुः ॥ अत्र दृप्तावमाननं कुर्युरिति व्यङ्गय (म्) विशेषण (तया) वाच्यार्थस्य रसावमाननस्यैव व्यञ्जनया बोधनात् । वाच्यव्यङ्ग्ययोः समप्राधान्यम् । काकाऽऽक्षिप्तं यथा प्रख्यातोऽस्तु सखि स्फुटं वसुमति (ती?) प्रेयानिति प्रायशः __ त्वत्तोऽन्यां बहुमन्यते कृतविदां मान्यः स नञ्जप्रभुः । आसीत्त्वत्कुचकुम्भकावभिमृशन्मुग्धे विमोहाम्बुधे. रुत्तीर्णो विषमेषुनिष्ठुरशरावर्तेषु लग्नोऽपि यः॥ अत्र बहुमन्यत इत्यनेन पदेन काका न बहुमन्यत एवेति व्यङ्ग्यम् । अरम्यं यथा सेना(वा ?)नन्दित नञ्जभूप भवतः साक्षात् स्वहस्तार्पितै वस्त्रैरद्भुतभूषणैश्च नितरामाभूषिताः स्वां पूरीम् । भूयो भूपतयः प्रपद्य सचिवैः साकं सभामास्थिताः सभ्यांस्त्वत्सदृशः कथाभिरधिकं विस्मेरयन्त्यन्वहम् ॥ अत्र साक्षात्स्वहस्तार्पितैरित्यनेन भूपेषु नञ्जराजप्रीत्यतिशयसम्पादनं व्यज्यते । तस्य चान्यराजसेवागतत्वेन राज्ञामनुत्कर्षरूपत्वादाच्यापेक्षयाऽचारुत्वम् । इति गुणीभूतव्यङ्गयनिरूपणम् । चित्रं तु शब्दार्थालङ्कारचित्रतया बहुविधम् । तत्पश्चोऽप्यलङ्कारप्रकरणे भविष्यति । अथ महाकाव्यादयः प्रबन्धा निरूप्यन्ते । “नगराणवशैलतुंचन्द्रार्कोदयवर्णनम् । उद्यानसलिलक्रीडामधुपानरतोत्सवाः ॥ विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् । मन्त्रद्यूतप्रयाणादिनायकाभ्युदया अपि ॥ एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमिष्यते ।" एतेषामष्टादशानां मध्ये यैः कैश्चिन्यूनमपीष्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy